पृष्ठम्:तपतीसंवरणम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ षष्टोऽङ्कः । (ततः प्रविशति वृद्धकाञ्चुकीयः) काञ्चुकीयः ---(सविमर्शम्) अहो महानुभावता महाराजसंवरण स्य, यदमुष्य रथहयहेषितसमकालीनो घनाघनानां हु- ङ्कारः, पादपद्मपरागैः समं भुवि पतिताः पयोवृष्टयः । अमुना प्रमोदातिभारेणाम्रेडितमङ्गानामपाटवम् । कुतः-- कुर्वन् नैकविधां गतिं प्रकटयन्नुद्भ्रान्ततारे दृशौ चिन्ताग्लानिविषादविभ्रममुखान् भावान् समुद्भावयन् । - अथ राजागमनापेक्षिणीं वर्षस्य सिद्धिं राज्ञः प्रासादारोहणं च विष्कम्भ- पात्रेण स्थविरकञ्चुकिना सूचयति । प्रविष्टः सः स्वामिनो लोकोत्तरत्वं प्रशंसति – महाराजस्य महानुभावता आश्चर्यभूता अघटमानघटनापटीय- स्तानुभावः स लोकोत्तरः, यतः अमुष्य रथहयहेषितसमकालीनः आगमनकाले रथहयानां हेषितेन समकालभवः नतु पश्चात् । घनाघनानां वर्षोद्यतानां मेघानां हुङ्कारः गर्जितम् । “+प्रविवर्षुर्जलधरः प्रभिन्नः षाष्टिको गजः । देवश्च नमुचेर्हन्ता त्रयो ज्ञेया घनाघनाः ॥” इति वर्षोद्यतमेघवाची घनाघनशब्दः । पुनः रथादवतीर्णस्य भूतलमलङ्कृत- बतः पादपद्मपरागैः समं भुवि पंयोवृष्टयः पतिताः । अमुना प्रमोदाति- भारेण एतन्निमित्तेन प्रमोदस्यातिभारेण स्वामिदर्शनेन वर्षेण च प्रवृद्धेन । अङ्गानामपाटवमाम्रेडितं द्विगुणितम् । आम्रेडितमित्यनेन पूर्वमेव वार्धककृत- स्यापाटवस्य सूचनं कृतम् । तद्विवरणाय कुत इत्याद्युपक्रमः । कुतः पूर्व- मपाटवमिति चेदुच्यत इत्यर्थः । कुर्वन्नित्यादि । सोऽयं वार्धक्यविस्फूर्जथुः नर्त्तकवद् मां प्रनर्त्तयति । सोऽयमिति अतीतवर्तमानकालानुबद्धत्वेन चिर- प्रवृद्धतां प्रकाशयति । अत एव वार्धक्यविस्फूर्जथुरित्युक्तम् । विस्फूर्जथुः प्रकर्षः। नर्त्तकवद् मां प्रनर्तयति नर्तको नर्तकमिव प्रनर्तयति चेष्टयति अन्यत्र नृत्तं + 'विवर्षिषुरि' ति साधु.