पृष्ठम्:तपतीसंवरणम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० तपती संवरणे वेगस्तब्धा इवामूः कनकवलयवद् व्याप्तपर्यन्तरेखं नेमीरावर्त्तमानाः पिशुनयति तडिच्चक्रमाक्रान्तिलग्नम् ॥ १६ ॥ (इति निष्क्रान्ताः सर्वे) इति पञ्चमोऽङ्कः । - रपुटस्येति वेगातिशयः । अत्र क्षणशब्देनातिसूक्ष्मः कालो विवक्षितः । पुनः प्र- कारान्तरेण वेगमाह – आक्रान्तिलग्नं तडिच्चक्रम् अमूः नेमीः आवर्त्तमानाः पिशुन- यति । यतः वेगस्तब्धा इव वेगेन निश्चला इव अज्ञातपरिभ्रमणाः । आ- क्रान्तिलग्नं नेमीनां मेघोपर्याक्रमणेन लग्नम् । तडितां मेघाभिघाते झटित्युदयात् तदानीमेव नेमिषु (न?) लग्नम् | कनकवलयवन्नेमिषु व्याप्तपर्यन्तरेखम् । आवर्त्त- मानाः भ्रमन्तीः । पिशुनयति । मेघाक्रमणे तडितां नेमिपर्यन्तवलनाद् इमा नेमयो भ्रमन्तीति कल्पयितुं शक्यम् । अन्यथा वेगातिशयेन स्तब्धा इव दृश्यन्ते । एवं वर्णितवेगेन रथेन झटिति पुरं प्राप्तः ॥ १६ ॥ इति पञ्चमोऽङ्कः ।