पृष्ठम्:तपतीसंवरणम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । राजा - बाढम् । प्रथमः कल्पः । (सारथिस्तथा करोति) विदूषकः - (क) भो वअस्स! पुव्वप्पत्थिअं अम्बरगमणं आसि त्ति पीदी समुप्पण्णा । रहवेअघुण्णैिदक्खो छिष्णपादं प डिस्सं ति भअं मे उप्पण्णं । ता दिढं तुमं ओळम्बिअ चिट्ठिस्सं । (राजानमवलम्बते) राजा - (रथवेगं निरूप्य) अहोतुखल्वप्रतर्क्यक्रमोऽयमतिस्यदः स्य- न्दनस्य । कुतः कालः पातेष्वमीषां खुरपुटयुगयोर्मेघपृष्ठे हयाना- मेकस्यैव क्षणस्य प्रथमचरमयोः पूर्वपाश्चात्यभागौ । www.on १७९ (क) भो वयस्य ! पूर्वप्रार्थितमम्बरगमनमासीदिति प्रीतिः समुत्पन्ना । रथवेग- घूर्णिताक्षश्छिन्नपातं पतिष्यामीति भयं मे उत्पन्नम् । तद् दृढं त्वामवलम्ब्य स्थास्यामि । -- किं मुच्यन्तामभीशव इति तस्य प्रश्नमनुवदति – बाढं प्रथमः कल्प इति । बाढमिति पूर्णानुवादे । तद्योग्यतया प्रथमः कल्प इति । मुख्यपक्षोऽयमि- त्यर्थः ॥ - अथ रथवेगं निरूप्य सविस्मयमाह. - अहोतुखल्विति । अयं स्यन्द- नस्य अतिस्यदः अतिवेगः अप्रतर्क्यक्रमः विमर्शाशक्यपरिपाटीयुक्तः । कुत इति । कस्मादेवमतर्क्यत्वमित्याह – काल इति । अमीषां हयानां प्रथमचरमयोः खुरपुटयुगयोः मेघष्पृष्ठे पातेषु कालः एकस्यैव क्षणस्य पूर्वपाश्चात्यभागावित्यन्वयः। प्रथमचरमयोरग्रगतयोः पृष्ठगतयोश्च । पादद्वयाश्रयं खुरपुटम् अन्यपाद्वयाश्रयं चेति खुरपुटयुगं, तयोः पुटयोरग्रभवयोः पश्चाद्भवयोश्च । मेघपृष्ठे पातेषु मेघोपरि पदवि- न्यासेन गमनमङ्गीकृत्योक्तिः तत्र खुरपाते । कालः एकस्यैव क्षणस्य पूर्वपाश्चात्यभागौ, न क्षणान्तरम् । एकक्षणस्य पूर्वभागेन प्रथमखुरपुटस्य पातः पश्चाद्भागेन चरमखु- १. 'म्मि' इति कग, पाठ: २. 'सम्पज्जइ ।' इति ग. पाठः ३. 'म्व्य स्थितः) ' इति ग. पाठ.. ४. 'पयन्) ' इति ख. पाठः. ५. 'तिरयः स्य' इति ख-ग. पाठः.