पृष्ठम्:तपतीसंवरणम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे राजकानने स्थितः । यद्यहममुष्मै भूतार्थ प्रकाशयेयम्, असौ पृच्छेदप्यात्मदयितोदन्तं, ततश्चापतेयुः सङ्कटानि । तदेवं कथयामि । (अवतीर्योपसृत्य) विजयतां मध्यमलोक- पालः । अहमसकृदसुरविजयसाहाय्यसम्प्रीणितस्य भग- वतः सङ्क्रन्दनस्य शासनादम्बरपथेन हस्तिनपुरमायु- ष्मन्तं नेतुमागतोऽस्मि । तदारोहत्वायुष्मान् । राज--- (सप्रमोदम्) अनुगृहीतोऽस्मि भगवतां शतक्रतुना । ( सर्वे रथारोहणं नाटयन्ति ) १७८ - अमात्यः — भो सेनापते! सिंहघोष! अपरिबाधमानीयतामानु- यात्रम् । किं ब्रवीषि तथा क्रियत इति । सारथिः - आयुष्मन् ! किं मुच्यन्तामभीशवः । - दृष्ट इति प्रहर्षः । यद्यहममुष्मै भूतार्थं प्रकाशयेयम् अहं सूर्यसूतः त्वां नेतुमागत इति भूतार्थः । तत्प्रकाशने दोषः- प्रियोदन्तं पृच्छेदिति । ततश्च सङ्कटान्यापतेयुः, प्रियावृत्तान्तकथनें तद्दर्शनायैवायमुद्यच्छेद्, न राज्यगमनाय । ततो जनपदवि - नाशः । तदन्यथा कथयामि । विजयतां मध्यमलोकपाल इत्याशीर्वचनेनैव व्या- जस्य सङ्गतिमुद्भावयति । अहं सङ्क्रन्दनस्य शासनादायुष्मन्तं हस्तिनपुरं नेतुमा- गतः । असकृदसुरविजयसाहायकसंप्रीणितस्येति नियोगयोग्यत्वम् । तदारोहत्वायु- ष्मानित्यविलम्बप्रकाशनम् ॥ तच्छ्रुत्वा अनुगृहीतोऽस्मि भगवता सङ्क्रन्दनेनेत्यङ्गीकारपूर्व रथारोहणम् ॥ अथाकाशभाषितेनामात्यस्योक्तिः - सेनापते ! सिंहघोष! अपरिबाधमानी- यतामानुयात्रमिति | - पाठः, १- ‘तावदे' इति ख. पाठः २. 'र्य) वि' इति क-ख-घ. पाठः. ३. 'य्यकस' इति खन्ग. ४. 'जा— यदाज्ञापयति भगवान् सङ्कन्दनः । ( सर्वे रथमारोहन्ति' इति क. पाठः, ‘जा - यदाज्ञापयति भगवान् सड्कन्दनः । (स' इति घ. पाठः, 'जा- अ' इति ख. पाठः. ५. 'ता सङ्क्रन्दनेन (स' इति ख. पाठः. इति ख-ग-घ. पाठः, ६. भो भोः से' इति क-घ पाठ:. ७, 'कच्चिन्मु'