पृष्ठम्:तपतीसंवरणम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । १७७ विदूषकः- (ऊर्ध्वमयलोक्य) (क) भो वयस्स ! एसो दे सोसुरो णो हिअअसन्दावं अवणेढुं ओदरइ त्ति तक्केमि । राजो- अयं हि प्रभापटलदुर्विभाव्याभोगः कोडपिदिव्यः स्य- न्दनः । अमात्यः- - सदा खलु स्वामिनश्चित्तानुवर्तिन्यो देवताः । • (नीचैर्दत्तदृष्टिः) अये अयं महाराजः संवरणः शैल- सारथिः

(क) भो वयस्य ! एष ते श्वशुरो नो हृदयसन्तापमपनेतुमवतरतीति तर्कयामि । परि प्रसृतानि पलाशानि तोयश्लिष्टानीव दृश्यन्ते । तथा वितर्कयति - किं तोये व्याप्ते पलाशविततिः प्लवते केवलं तोयोपरि निरन्तराणि प्लवमानानि पलाशानि दृश्यन्ते किम् आधारस्यादृष्टत्वादिति प्रथमं प्रतीतिः । पुनः किञ्चिदधोगमने नैवेति पूर्वप्रतीतेरपलापः । तोयेषु नैव, द्रुमेषु तोयव्यतिरेकेणैतदाधारत्वेन द्रुमा दृश्यन्ते । ते तास्वेवाप्सु नाधारान्तरमेषामिति पश्चात् प्रतीतिः । पुनश्चावतरणे तत्र निषेध- प्रतीतिः नेति । अप्सु नेति पूर्वप्रतीत्युद्धरणम् । आधारान्तरमाह - भूधरेष्विति । द्रुमाणां भूधराः आधारत्वेन दृश्यन्ते । ते सिन्धौ भूधराणां सिन्धुराधारः । पुन- श्चान्यथा प्रतीतिः नेति । सिन्धौ न । पुनः कुत्र | पृथिवीतले गिरीणामाधारत्वेन पृथ्वीतलं दृश्यते । पुनरवतरणक्रमेण पृथ्व्या व्याप्तिः समुद्रस्य दूरीभावश्च । एवं स्थिते पृथ्वी सिन्धुनिचोलकुक्षिकुहरात् । “निचोल: प्रच्छदपटः" इत्युक्तावपि वस्त्रादिकृतं भाण्डावरणभाजनमिह विवक्ष्यते । सिद्धरूपस्य निचोलस्य कुक्षिकुह राद् उदरकोटरात् तत्र पूर्णा चक्षुषा प्रसह्य उत्कृप्यते आकृप्यते । तत्रान्तर्गते भाण्ड आकृष्यमाणे तस्य व्याप्तिः भाजनस्य सङ्कोचश्च दृश्यते । अत एवमुक्तिः । एवमवतरणे चक्षुषः प्रसरक्रमेणोत्खातप्रतिरोपिता मनोवृत्तयो भवन्ति ॥ १५ ॥ अवतर (न्तं रथ ? ति स्वय) मागच्छतीति तर्कयामि । गगनगमनोपा- यासिद्ध्या हृदयसन्तापः ॥ तद्भ्रममपनयति – अयं हि कोऽपि दिव्यः स्यन्दनः प्रभापटलेन दुर्विज्ञे- - यस्वरूपः ॥ - तमालोक्य सूत आह अये अयं महाराज इति । अन्विष्टो झटिति १. 'क्य) एसो भअवो सूरो' इति ख-घ. पाठः. २. 'जा (विभाव्य) अ' इति ख. पाठः.