पृष्ठम्:तपतीसंवरणम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे द्वितीयः पुनरयमादेशो देवस्य 'यदसौ संवरण: स्वराष्ट्र- गमनीय सचित्रेन सञ्चोदितस्त्वरितगमनोपायमजानान- स्तिष्ठति । तदमुना स्यन्दनेन पूरणीयस्तस्याभिलाष' इति । तद् यावदवतरामि (अवतरणं नाटयन्नधो विलोक्य) अहोतुखलु क्रमादमुष्मिन्नवतरति स्यन्दने- किं तोये प्लवते पलाशविततिर्नैव द्रुमेषु द्रुमा- स्तास्वेवाप्सु न भूधरेषु गिरयः सिन्धौ न पृथ्वीतले । पृथ्वी सिन्धुनिचोलकुक्षिकुहरादुत्कृष्यते चक्षुषे- १७६ and 7 त्युत्खातप्रतिरोपिता मम भवन्त्येता मनोवृत्तयः ॥ १५ ॥ प्रथम आसं प्रवृद्धतमा गुणानां मूढानामग्रगण्यो जातः । प्रदोषः प्रकृष्टदोषः छलेन तादृशस्य मिथुनस्य विप्रयोगजननात् । एवं कृतं प्रत्यनुतापेन कथनम् । अत्र तम- शब्दस्यान्धकारार्थे प्रदोषशब्दस्य रजनीमुखार्थे प्रथमशब्दस्य प्रतिपदर्थे च श- ब्दशक्त्या प्रतीयमाने यथा प्रवृद्धतमसाम् अपरपक्षतिथीनां प्रथमः प्रदोषः तमो- ग्राहको भवति, तथेत्यर्थो व्यज्यते ॥ १४ ॥ एवं नियोगानुष्ठानं प्रतिपाद्यानुष्ठेय- नियोगान्तरं प्रस्तौति-द्वितीयः पुनरिति । तं प्रकारमाह - यदसौ संवरण: स्वराष्ट्र- गमनाय पुरादागतेन सचिवेन सञ्चोदितस्त्वरितगमनोपायमजानानास्तिष्ठति । तद- मुना स्यन्दनेन पूरणीयस्तदभिलाष इति द्वितीयो नियोगः । तदवतरामि । अवत- रणवर्णनोपक्रमः अवतरणं नाटयन्नधो विलोक्येति । अवलोकनेन कौतुकं ध्वनितम् । अत एवाह - अहोतुखल्विति । क्रमादमुष्मिन् स्यन्दने अवतरति ममैता मनोवृत्तय इति उत्खातप्रतिरोपिता भवन्तीत्यन्वयः । उत्खातप्रतिरोपिताः एतस्मात् प्रतीतिप्रकारादुद्धृताः पुनरन्यत्र स्थापिताः पुनस्तन्निषिध्योद्धृताः पुनरन्यन्त्र स्थापिता इत्यवतरणक्रमेण मनोवृत्तयो भवन्ति । तत्प्रकारमाह - किं तोय इति । सूर्यलोकादवतरणे प्रथमं व्याप्तस्यैव चक्षुर्गोचरत्वाद् जम्बूद्वीपात् समुद्रस्य व्याप्तत्वेन दृश्यमानत्वाद् जलमध्ये भूधरोपरि स्थितानां वृक्षाणामदृश्यत्वात् तदु- - १. ‘रादे' इति ख. पाठः, ३. 'यति) अ' इति ख, पाठ: २. 'नोपायमजानानः सचिवेन सञ्चोदितस्ति' इति क. पाठः. 'यति वि' इति क. पाठ: