पृष्ठम्:तपतीसंवरणम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । 1 ञ्छति । तेन च कश्चित् कालं विघटनीयमेतन्मिथुनम् । साच पतिदेवता न जाग्रती शृणोति कथामपि विप्रवा- सस्य | तन्निद्रायमाणे भर्तरि स्वपतीं तपती सपरिजनां प्रापय सावित्रीकाशमि'ति । ततश्चाहं--- राज्ञः प्रियां पृथुपयोधरभारगुर्वी- माक्षिप्य तां सहचरादिव चक्रवाकीम् । आज्ञाबलाद् दिनपतेरतिनीचवृत्ति- रासं प्रवृद्धतमसां प्रथमः प्रदोषः ॥ १४ ॥ त्सृज्य प्रयातुं न वाञ्छति । स्वर्गोपचनसमानानीति हेतुः । तत् किं क्रियतां तत्रा- ह - तेन कञ्चित् कालं विघटनीयं तन्मिथुनन् । विघटनीयं विश्लेषं नेतव्यम् । अस्मन्मतविरुद्धोऽयमित्युक्तं कञ्चित् कालमिति दुःक्षामपीडाशमावधि | कोऽत्र विघटनोपायः । सा च पतिदेवता । सा चेति न केवलं सः | पतिदेवतेति युक्त एवास्या निर्बन्ध इति प्रकाश्यते । जाग्रती न शृणोति कथामपि विप्रवासस्य कथा- मपि न शृणोति, दूरे तदनुष्ठानम् | तन्निद्रायमाणे भर्तरि स्वपतीं तां द्वयोरपि वि श्लेषबोधेऽसतीत्यर्थः । सपरिजनां तां सावित्रीसकाशं प्रापयेति निरालम्बनत्वेन तस्य नैराश्यजननार्थम् । इतीति सूर्यनियोगप्रकारोपसंहारः । तदनुष्ठानं प्रकाशयति -त- तश्चाहमित्यादि । तस्माद्धेतोः अहं तां प्रियां राज्ञ आक्षिप्य अतिनीचवृत्तिः प्रवृ- द्धतमसां प्रथमः आसमित्यन्वयः । प्रियां तामित्यनेन तस्या अभ्यनुरागातिशयः प्रकाश्यते । अत उभयोर्विश्लेषासहत्वे राज्ञः नरेन्द्राद् आक्षिप्य आकृप्यान्यत्र नीत्वेत्यनेनानौचित्यप्रतिपादनम् । पृथुपयोधरभारगुर्वी भोगयोग्ये वयसि वर्तमानां कान्तोरसि निहितस्तनभराम् । अपादानत्वेन ततो विश्लेषणमतीवायुक्तमिति प्रकाशितम् । तत् स्फुटयति - सहचरात् चक्रवाकी मिवेति । चक्रवाकमिथुनसाम्येन परस्परप्रेमगौरवं विश्लेषासहत्वं च प्रकाश्यते । दिनपतेराज्ञाबलादिति । स्वामिनि- योगप्राबल्यमनुचितानुष्ठाने निमित्तम् । तेनाक्षेपक्रियानन्तरं फलितमतिनीच- वृत्तित्वम् । अतिनीचा कुत्सिता वृत्तिः प्रवृत्तिः यस्य तादृशः । प्रवृद्धतमसां १. 'मेव त' इति क·घ. पाठः, मेव चत' इति ख. पाठः, २. 'समीपमि' इति क. पाठः, ३. 'मप्र' इति क. पाठः -