पृष्ठम्:तपतीसंवरणम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ तपतीसंवरणे अमात्यः -- बाढम्, आनीतम् अपि तु क्वचिदितः कोशमात्रे तु सन्निवेश्य देवसमन्वेषणार्थमहमेकाकी प्राप्तः । ु राजा --- किमानुयात्रेण । न खल्वयमखिलराजन्यप्राणामिषगृध्नु र्मम दक्षिणभुजः क्षमते कालक्षेपम् । तदालोच्यतामस्मा- कमम्बरगमनोपायः । (ततः प्रविशत्यम्बरयायिना रथेन सारथिः ) सारथिः- आदिष्टोऽहमरुणसारथिना भगवता । यथा 'हयसेन ! मम जामातुरसन्निधानादम्बुगर्भा अपि तज्जनपदे वर्षितु- मक्षमा नाड्यः । तेन स दुःक्षामपीडितः समुत्सन्नप्रायो वर्तते । संवरणोऽपि तपतीसङ्गमसुखविस्मृतकृत्यः हैमव तानि स्वर्गोपवनसमानि वनानि समुत्सृज्य न प्रयातुं वा- - किमानुयात्रेणेति । कार्यमिति शेषः ।। अथ राज्ञस्त्वरितगमनोपायसम्पादनाय देवदूतप्रवेशः । प्रविष्टः स सवितृ- नियोगमनुचितत्वेनानिष्टतया समर्थयति-आदिष्टोऽहमित्यादिना | अरुणसारथिना जगदनुग्रहसन्नद्धेन अहं नियुक्तः । यथेत्यादि तन्नियोगप्रकार: । हयसेन ! मम जामातुरसन्निधानाद् अम्बुगर्भा अपि वर्षाधिकृता अपि । मम नाड्यः सिरा रश्मय इत्यर्थः । नाडीनां चतुश्शतेन वर्षप्रवृत्तिरिति वर्षनियमिता नाड्यो निर्दिष्टाः “सौरीभिरिव नाडीभिरमृताख्यामिरम्मयः" (रघु-स.१० - श्लो. ५८) इति, "अष्टमा- सधृ(क्तू?तं) गर्भ भास्करस्य गभस्तिभिः” इति च प्रतिपादिता अत्र निर्दिश्यन्ते । तज्जनपदे वर्षितुमक्षमाः असमर्थाः । मम जामातुरसन्निधानात् मम जामातुरित्य मेन नूतनेन सम्बन्धेन तस्मिन् वात्सल्यातिशयो व्यज्यते, तेनासन्निधानकृतं जन- पदस्थाधर्मसम्बन्धं द्योतयति । अत एव अम्बुगर्भा अप्यक्षमा इत्युक्तम् । किं तेना- पतितमित्यत्राह – तेन स इत्यादि । अवर्षणेन दुःक्षामपीडितत्वाद् दुर्भिक्षपीडित- त्वादुत्सन्नप्रायो जनपदो वर्तते । तर्हि किमसन्निधानं तत्राह -संवरणोऽपीति । तपतीसङ्गमसुखविस्मृतकृत्यः विस्मृतकृत्यत्वम् अत्र दोषः । हैमवतानि वनानि समु- १. 'आगतम्' इति क-ख-घ. पाठ:. २. 'त्रे तदखिलं निवे'. ख. पाठ:. ३. 'षग्रासगृ' इति क-ग. पाठ:. ४. 'त्याकाशया' इति ग. पाठः, 'त्याकाशयानेन सा' इति क. पाठः. ५. 'दुर्भिक्ष' इति घ. पाठः ६. 'परित्यज्य' इति क-घ. पाठः, 'विहाय न' इति ख. पाठः