पृष्ठम्:तपतीसंवरणम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजी— (विलोक्य) अये अमात्यो वसुमित्रः प्राप्तः । (परिष्वज्य) सखे ! अप्रकाशितशरीरा वागभिहितवती कृतं जनपदोप- रोधं शत्रुभिः । भवन्मतिबलनिरुद्धसराणां तेषां कुतोऽय- मद्य प्रसङ्गः । अमात्यः- देव ! सत्यमशङ्कनीयपराक्रमा: केवलं पञ्चालाः । किन्तु बहुशो भवद्बाहुबलनिर्जितैः सकलराजन्यचकैः सम्भूयैते समुल्लङ्घ्य मम मतिबलं प्रतीक्षन्ते देवस्य पराक्रमम् । त- दनतिविलम्बितं तेषामभिलाषं पूरयतु स्वामी | विदूषकः -- (क) भो ! किं तुए सह बाहणं आणुजन्तं आणीदं, जेण तुरिअं गच्छीअदि । (क) भोः किं त्वया सह वाहनमानुयात्रमानीतं, येन त्वरितं गम्यते । तदवसरे अमात्यः प्रविष्टः । विजयतां देव इति कृताचारं तं परिष्वज्य श्रुतमर्थ बोधयति – अप्रकाशितशरीरा वागभिहितवती वक्तारं न पश्यामि वाचं शृणोमि । अतः दैवकृतमिति मन्ये भवन्मतिबलनिरुद्धमसराणां तेषां कुतोऽय- - मद्य प्रसङ्गः ॥ तत्र शत्रुपरिभवमेव पोषयत्यमात्यः । राज्योप्लवेन सर्वधनाभिघातेऽनृत- स्यापि न दोषरूपत्वमिति मत्वा परपरिभवं प्रकटयति – देव ! केवलं पञ्चाला अनन्यसहायाश्चेद् अशङ्कनीयपराक्रमाः । किन्त्विति । इदानीं विशेषोऽस्ति । बहुशो भवद्वाहुबलनिर्जितैः छिद्रान्वेषिभिः सकलराजसमूहै: सम्भूय मम मतिबलं समुल्ल- ङ्घयैते देवस्य पराक्रमं प्रतीक्षन्ते प्रतिपालयन्ति । प्रथावितुमिति शेषः । तदविल- म्बितं तेषामभिलाषं पूरयतु स्वामी || किं त्वया सह वाहनमानुयात्रमानीतं, येन त्वरितं गम्यते ॥ .१. 'जा-अ' इति क-ख-घ. पाठः २. 'ये व इति क. पाठ:. ३. 'गृडप्र' इति घ. पाठ: ४. 'दवि' इति ख. पाठ:. ५. 'कः - किं' इति क-ख-घ. पाठः