पृष्ठम्:तपतीसंवरणम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे विदूषक:--- (स्वगतम्) (क) साहु के वसुमित्त ! साहु । अमच्चभा- वाणुरूवं तुए उवक्कन्तं । दिद्विआ एसो परिवत्तिदो कामु- म्मादादो रोसङ्कुसेण । जाव अहं पि किञ्चि सन्धुक्खेमि कोवाणळं । (प्रकाशम्) भो तेहिं दासीएवुत्तेहिं पञ्चाळेहिं पुव्वं पि तुज्झ बाहुजुअळेण अणुभाविअभअरसेहिं अज्ज वि अप्पविणासाअ एवं आढत्तं । राजा--- (सविमर्शन्) सखे ! किन्नु खल्वसन्निहितस्तत्रभवान् वसु- मित्रः, येनैतदेवमापतितम् । (प्रविश्य) अमात्यः --- विजयतां देवः । (क) साधु रे वसुमित्र! साधु, अमात्यभावानुरूपं त्वयोपक्रान्तम् । दिष्ट्यैष परिवर्तितः कामोन्मादाद् रोषाङ्कुशेन । यावदहमपि किञ्चित् संधुक्षे कोपानलम् । भोः ! तैः दास्याःपुत्रैः पञ्चालैः पूर्वमपि तव बाहुयुगलेनानुभा- बितभयरसैरद्याप्यात्मविनाशायैतदारब्धम् । सप्तयोऽश्वाः । तत्र शक्त्येदमेव सम्पादनीयम् । किं पुनः क्रियत इति चेत् । तान् अरीन् क्षुरप्रमुखकुट्टितस्फुटितसन्धिबन्धान् क्षुरप्रमुखैः कुट्टिताः छिन्नाः स्फुटिता विशीर्णा हस्तपादादिसन्धिबन्धा येषां तान् । क्षणात्, न तु कालान्तरे । परं यमक्षयकृतस्थितीन् न स्वगृहस्थितीन् केवलं यमावासकृतस्थितीन् निरीक्षस्व । रणाङ्गणे सङ्घटनस्यैव कालविलम्बः, उत्तरक्षण एव यमालयस्थितीन् पश्य ॥ १३ ॥ तच्छ्रुत्वा प्रोत्साहयति नर्मसचिवः - भोः तैः दास्याः पुत्रैः पञ्चालैः तव बाहुयुगलेनानुभावितभयरसैरात्मविनाशायैतदारब्धम् इति ॥ p - तत्राह - सखे ! किमसन्निहितस्तत्रभवान् वसुमित्रः, येनैतदीदृशं व्यस- नमापतितम् । तत्सन्निधान एवं नैव भवेदिति भावः ॥ १. 'पा' इति क. पाठः, २. 'बळे' इति क-ग. पाठः. ३. 'हा'गि पाठः. ४. 'खलु तस्मिन्नस' इति ग. पाठ:. ५. 'तम् । अ' इति क-घ. पाठः ६. 'त्यः- (उपसृत्य) वि' इति क-घ. पाठः,