पृष्ठम्:तपतीसंवरणम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(नेपथ्ये) राजन् ऋक्षनन्दन ! विदूरस्थे नाथे पृथुमहसि पञ्चालपशुभि स्त्वयि व्याप्तं राज्यं तव सकलममर्थकलुषैः । अतस्तूर्णं गत्वा कुरु निजपुरीमस्त विपदं पुनस्ते भूयासुर्मनसि निहिताः कामगतयः ॥ १२ ॥ राजा - (अमर्षपरिवर्तिताक्षमाकर्णयन्) किं किं चालापशदैः परामृ ष्टमस्मद्राज्यम् । क्षणं मम रणाङ्गणे परिणिधेहि पचालकान कृतान्त ! यदि शक्नुयाः सरथपत्तिततिद्विपान् । क्षुरप्रमुख कुट्टितरफुटितसन्धिबन्धान् क्षणाद् • यमक्षयकृत स्थितीन् परमरीन् निरक्षित्व तान् ॥ १३ ॥ अथामात्यो रसान्तरेणात्य चित्तं व्याक्षेषाद् व्यावर्तयितुं तिरोहितोऽश- रीरिणीमेव वाचं प्रकाशयति – राजन् ऋक्षनन्दन ! मयि त्वाये विदूरस्थे तव राज्यं सकलं पञ्चालपशुभिः व्यातम् । विदूरस्थतैवात्र निमित्तम् । यतः पृथु - महसि उरुतरप्रतापे । तादृशस्य तव दूरस्थतैव तेषां प्रवृत्तिनिमित्तम् । पञ्चाल- पशुभिः अतिकातरैः । अत्यन्तकलुषैः कोपव्याकुलचित्तै राज्यं सकलमाक्रान्तम् । अतस्तूर्णं गत्वा पुरीमस्तविपदं कुरु | शत्रुवधेनेति शेषः । ते मनसि निहिताः साध्यतया सङ्गृहीताः | कामगतयः अभिप्रायप्रकाराः | पुनर्भूयासुः एतदनन्तरं निर्विघ्नं भूयासुरित्याशिषि प्रयोगः ॥ १२ ॥ तां वाणीममर्षपरिवर्तिताक्षमाकर्णयन् आकर्णनसमय एवं मानित्वेना- मर्षमवलम्बमानः कथयति - किं किं पञ्चालापशदैः: परिमुष्टमस्मद्राज्य- मिति । अतिक्षुद्रैर्माण्डलिकैः । अस्मद्राज्यं सार्वभौमराज्य नित्यनौचित्यस्फुरणेन सामर्षे दैवाभिमुख्यं प्रार्थयते - हे कृतान्त ! शक्तुया यदि पञ्चालकान् मम रणाङ्गणे परिणिधेहि परितः स्थापय । सरथपत्तिसप्तिद्विपान् समग्रवलसमेतान् । -