पृष्ठम्:तपतीसंवरणम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे तस्या जनविता | भगवन् ! पद्मिनीवल्लभ ! तस्यारते दुहितुरविप्लुतानुरागात् संसर्गात सुभगतरैः करैरमीभिः । अङ्गानामतान्तराज्यमीषा- मासिम्बनमृतकरोऽसि नोष्णरश्मिः ॥ १० ॥ · हा कष्टनकालजलदः पापीयानंशुमालिनं तिरोधत्ते । भो भोः सौदामनीवल्लभ ! लास्यारम्भप्रविततशिखान र्पयन्तं कलापान् केकापूरप्रचितकुहरां कन्धरां द्राघयन्तम् । त्वं प्रेक्षत्व प्रणयविवशः प्रेमवन्तं मयूरं मा भूर्मैव! क्षणमपि रवेर्मण्डलस्योपरोधी ॥ ११ ॥ भगवन् ! पद्मिनीवल्लभ ! उचित कान्तासंयोगवियोगदुःखज्ञतयास्मद्वैषम्यं त्वया ज्ञायते । अतस्तस्यास्ते दुहितुः अवितानुरागाद् अपरिच्युतस्नेहात् संसर्गाद् अङ्कारोपणसमाश्लेषादिकृतात् सुभगतरैः अतिहृद्यैः संसर्गसङ्क्रान्ततदङ्गस्पर्शैः अ- मीभिः करैः अमृतरसान्तराणि अमृतरसविशेषान् अनार्द्राण्यतिह्रद्यानि आसिञ्चन् आ समन्तात् सिञ्चन् अमीषां मदङ्गानां त्वम् अमृतकरोऽरोसि, नोष्णरश्मिः । अन्ये - षामेवमुष्णरश्मिमैदानामेव ममृता सेचनादमृतकरोऽसि ॥ १० ॥ अथ मेघं प्रत्याह- भोः सौदामनीवल्लभ! उचितगृहिणीप्रियस्य तव विरहविधुरस्य ममाश्वासनप्रति- बन्धो न योग्यः । त्वं मयूरं प्रेक्षस्व त्वदेकालम्बनं सुहृदं सम्मानय । विशेषत- स्त्वत्प्रसादाय लास्यारम्भे नटनारम्भे प्रविततशिखान् विस्तृताग्रभागान् कलापान् अर्पयन्तं तव दृश्यतया प्रेरयन्तम् । तथा केकापूरेण स्वनादसञ्चयेन परिपूर्णान्तरालां कन्धरां ग्रीवां द्राघवन्तं दीर्घीकुर्वन्तं प्रेक्षस्व | प्रेक्षणीये पुरोवर्त्तिनि किमन्योप- घाताय प्रवर्तस इति भावः । प्रणयविवशः तस्मिन् परिचयेनाभिनिविष्टः । प्रेमवन्तं त्वयि स्नेहवन्तम् । परस्परस्निग्धयोः सुहृदोः परस्परावलोकनं हृद्यम् । इदं विहाय क्षणमपि रवेर्मण्डलस्यास्मत्सुहृदः उपरोधी मा भूः ॥ ११ ॥