पृष्ठम्:तपतीसंवरणम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । पुलकसुहृदि मन्ये यंत्र संश्लेषसौख्य प्रतिहतिषु दलानामन्चसूयापरोऽभू: ॥ ९ ॥ सखे ! तदङ्गसङ्गमोत्सवदुर्ललितेनामुना किञ्चिद् विरली- कृतो मोहान्धकारैः । तत् केन पुनरघुना तदन्वयश्ला- घिना वस्त्वन्तरेण संस्तम्भयाम्यात्मानम् । विदूषक :--- (क) भो वअस्स! अम्बरआरिणीए तिस्से परिग्गहो माणुसमत्तेहि अह्मेहि कहं आसादिज्जइ । राजा --- (उर्ध्वमवलोक्य सानन्दम्) अये विस्मृतोडयमियती वेलां सु खसमासादनीयः समाश्वासः, अयं हि भगवान् भानुमाली (क) भोवयस्य ! अम्बरचारिण्यास्तस्याः परिग्रहो मानुपमात्रैरस्माभिः कथमासाद्यते । अस्मद्वियोगेन विवर्णम् । तथापि प्राप्तपरभागं, यतोऽलियूथश्यामलैः अलियूथवत् श्यामलैः नेत्रकान्त्यग्रभागैराकर्णान्तं प्रसृतैः शवलितं शवलं कृतम् । यत्र दलानां संश्लेषसौख्यप्रतिहतिषु अनेकवारं जातानु त्वम् अभ्यसूया परोऽभूः | तव कपोलशो- भाजनने निर्बन्धः । अतस्तत्र तव दलानां संश्लेषसौख्यस्य प्रतिहतिषु त्वम् अभ्यसू- यापरोऽभूः । कथं संश्लेषसौख्य प्रतिहतिः । तत्राह - पुलकसुहृदीति । पुलकोदयेन कपोलस्य दन्तुरत्वे पुलकेन दलानां विश्लेषजननादभ्यसूया घटते । पुलकसुहृदीति पुलकाख्ये सुहृदि समागते मद्दलानां विश्लेष इति पुलकं प्रति पुलकनिमित्तं प्रति वा- भ्यसूया घटते । मन्ये इति ममानुभवसिद्धोऽयमर्थः । अनुभवस्य वैशद्येनेदानीमपि स्फुरति । अस्मत्सङ्गमे तदा तदाश्लेषपरिचुम्बनादिषु पुलकोदयेन कपोलयोर्दन्तुरि तत्वं तव दलविश्लेषश्चेदानीमपि मम स्फुरति ॥ ९ ॥ तदङ्गसङ्गमोत्सवदुर्ललितेन तदङ्गसङ्गमस्वरूपेणोत्सवेन विशृङ्खलेन । तदन्वयश्लाघिना तत्सम्बन्धश्लाघनीयेन ॥ १. 'रः । के' इति क ख घ. पाठः, २. 'कः-अम्ब' इति क. पाठः ३. 'क्य) अ' इति घ. पाठ.. ४. 'त' इय' इति ख. पाठ: ५. 'सहेतुः, अ' इति ख. पाठः, 'सः, 'अये ! अयं भ' इति क. पाठः, ६. 'अंशुमा' इति ख. पाठः,