पृष्ठम्:तपतीसंवरणम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे देव्या मन्दारवतंसकः । सखे ! पाराशर्य! कथमयं प्रमा- दिना त्वया भूयोऽपि परित्यक्तः । (आदातुमिच्छति) अमात्यः - सखे ! अयमवसरस्तव देवमुपसर्पितम् । अहमपि केनाप्युपायेन 'शिथिलीकृत्य किञ्चिदस्योन्मादं पश्चाद् दर्शयिष्याम्यात्मानम् । (निष्क्रान्तः) विदूषकः --- (क) एव्वं होदु । (सत्वरमुपसृत्य) भो वअस्स! एसो कण्णऊरो । एसो अहं मन्दभाओ। एदं पुण पदुमराअ- भूमीए मरीइजाळं वअस्सं मोहेदि । राजा -- अये ! वयस्यः पाराशर्यः । सखे ! प्रयच्छैनम् । (विदूषकः कर्णपूरं ददाति) राजां--- (कर्णपूरमादाय हृदये निक्षिपन् सरोमाञ्चम्) अयि प्रियापरिग्रह- सुभग ! वतंसक ! अपि कुशलि कपोलं पाण्डु नेत्रप्रभाग्रैः शबलितमलियूथश्यामलैः पक्ष्मलाक्ष्याः । १६८ (क) एवं भवतु | भो वयस्य ! एष कर्णपूरः । एषोऽहं मन्दभाग्यः । एतत् पुनः पद्मरागभूम्यां मरीचिजालं वयस्यं मोहयति । अयं देव्या वतंसक इति भ्रमकथने विदूषकः सत्वरमुपसृत्य बोधयति एषोऽहम् । अयं कर्णपूरः । एतत् पुनः पद्मरागभूम्यां मरीचिजालं वयस्यं मोह- यति । पद्मरागभूमौ सूर्यरश्मिसम्बन्धे कर्णपूरभ्रमो जातः ॥ अथ तत्करात् कर्णपूरमादाय तं प्रत्याह- अपि कुशलीत्यादि । प्रिया- परिग्रहेण सुभग ! तया अलङ्कारत्वेन परिगृहीतत्वाद् हृद्यतम ! वतंसक ! त्वां पृ- च्छामि । पक्ष्मलाक्ष्याः कपोलम् अपि कुशलि निर्बाधं वर्त्तते किम् | भवतस्तत्र निरन्तरवास इति पृच्छामि । निमित्तवशात् किञ्चिदकुशलं शङ्कयते पाण्डु १. 'किञ्चिदस्योन्मादं शिथिलीकृत्य' इति ख- पाठ:. २. 'कः - (स' इति क-ख-घ. पाठः. ३. 'जा- (आदा' इति ख-घ- पाठः. ४. 'पन्) अं' इति क-पाठ:-

  • कपोलशब्दस्यार्घर्चादित्वं कल्प्यम् ।