पृष्ठम्:तपतीसंवरणम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । (पुनर्विभाव्य) नैष चन्द्रकान्तः, न चैतान्यश्रुजलजालानि । अमी हि विकचस्थलपुण्डरीकनिषण्णाः षट्चरणगणाः । तदन्यतो विचिनोमि । अथवा किमनयान्विष्टया, यया मुहूर्तमपि विरहमसहमानमंभवयन्त्यापि मम हृदयं क्वापि प्रतिष्ठमानया समवलम्बितस्तूष्णीम्भावः (पुनर्विचिन्त्य) य- हा नापराद्धं तथा पतिदेवतया । इयमेव हि बन्धकी वसुन्धरा सपत्नीमात्सर्यात् तपस्विनीं तां ग्रस्तवती । उप- लक्षितपूर्वा चेयममुष्याः शैली । तथाहि ---- दशरथतनयस्य पश्यतः प्रियदयितामपह्रत्य मैथिलीम् । नृपसदसि यया तिरोदधे किमिव तथा पुनरत्र दुष्करम् ॥ ८ ॥ (स्मृत्वा ) अथवा भूपालसहस्रभुक्तमुक्तायाः कुतोऽस्याः कुलटायस्तस्यां पतिव्रतायां सपत्नीमात्सर्यावकाशः । तन्नेयं मन्ये पृथिवी प्राणवल्लभां मुषितवती । तदन्यतो विचिनोमि । (पँरिक्रम्य पुरतो विलोक्य सानन्दम्) अये ! अयं अत एव पुनर्विभाव्येति वस्तुनिरूपणं प्रकाशयति- नैष चन्द्रकान्तः । नचैता- न्यश्रुजलानि । अमी हि विकचस्थलपुण्डरीकनिषण्णाः षट्चरणगणाः भ्रमरगणाः । अत्रैतानि विकचस्थलपुण्डरीकाणि, एते षट्चरणा इति बोध्यम् । अवयन्त्यापि अवगच्छन्त्यापि । शैली शीलम् | दशरथेत्यादि । पश्यतः पश्यन्तमनादृत्य नृप- सदसि मैथिलमिपहृत्य यया तिरोदधे तिरोधानमङ्गीकृतं, तथा अत्र अस्मिन् काले वनभूमौ वा ॥ ८ ॥ १- 'निरूप्य' इति क पाठः. २. 'वगमय' इति ग- पाट:. ३. 'ली । द' इति ख- पाठः. ४. 'या अस्यां' इति ख- पाठः. ५. 'यां मा' इति ख- पाठः, ६. 'पुनर्विलोक्य अ' इति ख-पाठ.. ७. 'क्य) अ' इति क-घ. पाठः.