पृष्ठम्:तपतीसंवरणम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे किं नेत्राभ्यां चकितहरिणीनेत्रमापीतमाभ्या- मासीदस्मद्दयितमलसापाङ्गमर्थान्तरं ते ॥ ६ ॥ हहह उन्मत्तोऽहं तनुमन्तमिवैनं व्यपदिशामि। तदन्य- तो विचिनोमि।(परिक्रम्य सहर्षम्) अये ! समुल्लिङ्गितस्तस्या मार्गः, कुतश्चित् कारणात् कुपिताया विहाय मां प्र- स्थितायाः --- • नेत्रान्तवान्तान्यधिचन्द्रकान्तं क्लान्तेरमुत्र क्षणमासितायाः । देव्या वियोगातुरचित्तवृत्ते- रास्राण्यमून्यञ्जनकर्बुराणि ॥ ७ ॥ करोषि । कृतकृत्यतया अंसस्थेन कार्मुकेण सह कामिनीनां चिल्लीवल्लीचलनेन विलासचलितचिल्लीवल्लीभिः यत् तुलनं तेन श्लाघापरेण गर्वितेनेत्यर्थः । एवं स्वैरचारे अस्मद्दयितमर्थान्तरं ते आभ्यां नेत्राभ्यामापतिमासीत् किम् । चकित- हरिणीनेत्रमिति लक्षणकथनम् अलसापाङ्गमिति च । अलसे अस्मद्वियोगेन श्रान्ते अपाङ्गे यस्य । अर्थान्तरमित्यनेन स्वरूपे सिद्धेऽप्यनिर्देश्य सौरूप्यादिगुण- वैभवेनार्थान्तरमित्येव वक्तुं युक्तम् । स्त्रीरूपं प्रिया इत्युक्तौ व्यक्त्यन्तरसाधारण्येन लघुत्वमेव भवेत् । अत एवार्थान्तरमित्युक्तम् । आभ्यां ते नेत्राभ्यामापीतमित्यनेन योषिज्जातिपरमदैवतस्य तवापि नयनकौतुकावहं तस्या रूपामृतमिति प्रकाश्यते ॥६॥ अये समुल्लिङ्गितः लिङ्गेन परिज्ञातः । तल्लिङ्गमुपपादयति - कुतश्चित् कारणात् कु- पितायाः किमपि कारणं भावयित्वेत्यर्थः । अत एव मां विहाय प्रस्थितायाः आखाण्यमूनि दृश्यन्त इति शेषः | नेत्रान्तवान्तानि नेत्रान्ताभ्यां धारया गलि- तानि । अधिचन्द्रकान्तं (चन्द्रकान्त) शिलायामित्यश्रुगलनाधिकरणम् । क्लान्तेः परि- श्रमात् । अमुत्र प्रदेशे । क्षणमासितायाः वियोगातुरचित्तवृत्तरित्यश्रुगलननिमित्तम् । अञ्जनेन क्षालितेन कर्बुराणि शबलानि ॥ ७ ॥ एतत् सर्वं भ्रान्तिकल्पनम् । १- 'अन्य' इति ख. पाठ.. २- 'र' इति ख. पाठ: