पृष्ठम्:तपतीसंवरणम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । धनुर्धनुः । M विदूषकः --- (पतित्या सभयम्) (क) अविह केण वि पक्खित्तो ह्मि । अमात्यः -- (सविस्मयम्) अहोतुखल्वतिशयितशक्रप्रभावेयं देव- स्य प्रभुशक्तिः यदयमंपि नाम वर्षाचलो गौरीगुरु- रस्योन्मादकोपकलुषीकृतः कम्पते । (विदूषकमुत्थापयति) राज---(विचिन्त्य) हन्त धिङ् मामकृतवेदिनामग्रेसरम् | येन तदा तया मां सङ्गमयता गतकल्पा अपि प्रत्यानीताः प्राणाः, स किल मम बाणानां लक्षभूमिः । तदन्यतो विचि नोमि । (अन्यतो विलोक्य) भगवन् ! सङ्कल्पयोने ! अंसस्थेन भ्रमसि हिमवत्कानने कामिनीनां चिल्लीवल्लीचलनतुलनश्लाघिना कार्मुकेण । (क) अविध ! केनापि प्रक्षिप्तोऽस्मि । उक्तानुष्ठानाय धनुर्ग्रहणोद्यमः प्रकाशितः ॥ ततः भूकम्पेन विस्मितोऽमात्य आह -- अहोतुखल्वतिशयितशक्रप्रभावेयं देवस्य प्रभुशक्तिः प्रभुत्वोचिता शक्तिः प्रभाव इत्यर्थः । वर्षाचलः भारतवर्षसीमा- पर्वतः ॥ विचिन्त्येति । उन्मत्तप्रलापस्य यदृच्छोदितत्वात् तदैवान्यथा निरूपणम् । हन्तेति खेदे | अकृतवेदिनामग्रेसरं मां धिग् अकृतज्ञतया अहमेव कुत्सनीयः । तेन कृतं प्रकाशयति - येनेत्यादि । तदा तया मां सङ्गमयता मयि स्फटिकमण्डपे शयाने प्रियतमया घटयता गतकल्पा अपि गतप्राया अपि मम प्राणा: प्रत्या- नीताः, स किल मम बाणानां लक्षभूमिः । किलेत्यनौचित्यद्योतकम् । तदन्यतो विचिनोमीति भ्रमस्य व्य।प्तिः प्रकाश्यते । भगवन् ! सङ्कल्पयोने ! इति मदनं पुरो भावयित्वोक्तिः । सङ्कल्पयोने ! भवतः सङ्कल्पोद्भवत्वात् सर्वेषामिष्टानिष्टसङ्कल्पे वै- षम्यज्ञानं घटते । अतः पृच्छामि तत् - हिमवत्कानने भ्रमसि स्वैरसञ्चारं २. 'म्) के' इति क-घ. पाठ:. ३ ‘ण खुप' ५. 'मधुना व' इति घ. पाठः ६ 'जाह' इति ८. 'परिक्रम्यावलो' इति क घ. पाठः. १. 'समयं पतित्वा (के' इति ख. पाठः. इति क-घ. पाठ:. ४. 'त्यः-अ' इति क. पाठ: क-ख. पाठ.. ७. 'प्राणाः प्रत्यानीताः' इति क. पाठः.