पृष्ठम्:तपतीसंवरणम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे - विदूषकः --- (कंर्ण दत्वा) (क) दिट्ठिआ वअस्सस्स एव्व जळहर- गम्भीरो सरो सुणीअदि । अमात्यः -- (विलोक्य) अये अयं स्वामी सोन्माद इव हिमाच- लापहृतां देवीं मन्यमानस्तमभि क्रुध्यन्नित एवाभिवर्तते । तन्नायमवसरः प्रकाशयितुमात्मानम् । तदवसरे समुप- सर्पावैः । विदूषकः -- (ख) एव्वं होदु । (गुल्मान्तरितौ स्थितौ ) (ततः प्रविशति सोन्मादो राजा) राजा-- (सोद्वेगम् आः दुरात्मन्नचलाधमेति पूर्वोक्तमेव पठित्वा) प्रयाहि दुहितुः सुतं शरणमद्य शर्वात्मजं पुरत्रयहरं हरं स्वयमुपेहि जामातरम् । तथाप्यसुरवाहिनीरुधिरपूरगण्डूषण- प्रमोदभरदुर्मदैर्मम शरैर्न मोमुच्यते ॥ ५ ॥ (क) दिष्ट्या वयस्यस्यैव जलघरगम्भीरः स्वरः श्रूयते । (ख) एवं भवतु । तमभि क्रुध्यन् । तं प्रति क्रुध्यन् ॥ श्याहीत्यादि । दुहितुः सुतं शर्वात्मजं शरणं प्रयाहीति सम्बन्धेन गौर- त्व शरण्यत्वं प्रकाशयितुं द्वयोरुपादानम् । अथवा सुतस्तिष्ठतु, जामातरं सम्बन्धिनं पुरत्रयहरं दुर्जयरिपुसंहारदक्षं हरं शरणमुपेहि । तथापीति प्रबल- परिग्रहेणापि मच्छराविषयत्वं न घटते । मम शरैस्त्वं न मोमुच्यसे भृशं न यज्यसे,यतः असुरवाहिन्याः रुधिरपूरस्य गण्डूषणेन यः प्रमोदभरः तेन दुर्मदः कर्त्तव्यतानपेक्षिमदः येषां तैः । अयममोचने हेतुः ॥ १ ॥ धनुर्धनुरिति "(सहर्षम्)' इति क. पाठः, '(आकर्ण्य सहर्षम् ) ' इति घ. पाठ:. २. 'स्स ज' इति ख-घ. ३. 'त्यः अ' इति क·ख-घ. पाठः. ४. 'ति' इति क-ग. पाठ: ५. 'वः। गन्तरितौ) ' इति क. इति क-ख. पाठः, 'नित्यादिपू' इति ६.