पृष्ठम्:तपतीसंवरणम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । कस्यान्यस्य भवेयुरङ्घ्रियुगले राजन्यचूडामणे- र्देवात् संवरणादृते समवतः सप्तार्णवां मेदिनीम् ॥ ४ ॥ (नेपथ्ये) आः दुरात्मन्नचलाधम ! अतिचिरान्विष्टोऽपि न मे प्रा- णेश्वरीं प्रकाशयसि । विश्वविजयसमनन्तरविरमदैक्ष्वा- कक्षोणीघरकार्मुकोद्वहनकर्मकर ! कञ्चिदनभिज्ञो भवान् अद्यापि जनितबहुजन्यपौरवराजन्यचापचक्रपराक्रमा- णाम् । भवतु तावदधुनैव बोधयिष्यति संवरणः । राजन्यचूडामणैः सम्राजः देवाद् ऋते अन्यस्य कस्याङ्घ्रियुगले एतानि भवेयुः | एवंलक्षणयुक्तस्य तादृशरक्षाधिकारादन्यस्य न घटन्त इत्यर्थः ॥ ४ ॥ - अथ चूलिकया राज्ञः सन्निधिं तयोः प्रकाशयति - आः दुरात्मन्नित्यादि । प्रियतमावियोगेनोन्मादग्रस्तस्य राज्ञो हिमवदपहृतां देवीं सन्यमानस्य तं प्रति संरम्भवचनमिदम् । दुरात्मन् ! भत्रद्दौरात्म्यमेवास्मदनिष्टकरणे निमित्तम् । अत एव त्वम् अचलाधमः । अतिचिरान्विष्टोऽपि अन्वेषणद्वारा प्रतिगतोऽपि । अन्विष्टा मिति वा पाठः । प्राणेश्वरीं तव गूहनायोग्याम् । न प्रकाशयसि कुत्राप्यावृत्य मम न प्रकाशयसि । तवान्यपक्षपातमहं जानामि | विश्वविजये दिग्विजये वि- रमतां प्राच्युपक्रमः उदीच्युपसंहार इति क्रमेण तत्र विरमताम् ऐक्ष्वाक- क्षोणीधराणां निर्व्यापारस्य कार्मुकस्योद्बहने कर्मकर! किङ्कर ! | दिग्विजया- नन्तरं जयसाधनं धनुः भवति न्यस्येक्ष्वाकुक्षत्रियाणां गमनम् | त्वं तस्य धारक इति मया ज्ञायते । अद्यापि बहुतमे कालेऽतीतेऽपि । पौरवराजन्यानां नहुषययाति- प्रभृतीनां जनितबहुजन्यानां चापचक्रपराक्रमाणामनभिज्ञः कच्चित् । सोमवंश्यानां प्रभावं त्वं न जानासि । अत एवमाचरितम् । भवतु । अधुनैव संवरणो बोधयि- ष्यति । भुवि प्रसिद्धस्तेषां पराक्रमो भवता ज्ञातो न भवतु । संवरण इति कोपौ- द्धत्येन परीकृत्य कथनम् । एतच्छ्रुत्वा कोपविवशस्य सन्निधौ न गन्तव्यमिति तयोस्तिरोधानम् || १- 'ष्टे' इति ख. पाठः