पृष्ठम्:तपतीसंवरणम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६२ तपतीसंवरणे (विचिन्त्य) स्वामी नियतमपहाय भवन्तं तत्रभवत्या सार्द्धं नापयाति । शङ्के कुतश्चित् कारणादन्तर्हितां देवीमन्वेष्टुम् अटवीमटता देवेन भवितव्यम् । तद् यावदावां देव- मन्वेषावहे । --- (स्वगतम्) (क) अहो णिक्करुणा तत्तहोदी, जं तणअ- णामहेअस्स फळल्स पुष्पं विअ दंसिअ गआ। (प्रकाशम् ) एव्वं होदु । विदूषकः - (उभौ परिक्रामतः ) विदूषकः -- (अग्रतो विलोक्य) (ख) एत्थ सिअदिळे पढ़ेसे केण वि वणअरेण गएण होदव्वं । एसा हि पदपन्ती दीसइ । अमात्यः-- (सावधानं निरूप्य सहर्षम्) अहो चिरादवाप्तजन्मफले मम चक्षुषी। देवस्य पदसरोरुह्योरेवेदं प्रतिबिम्बम् । पश्य -- एषा सा कलशी सरोरुहमिदं केतुः स एवाङ्कुशः सोऽयं छत्रमिदं तुरङमकरौ तौ शङ्खचक्राविमौ । (क) अहो निष्करुणा तत्रभवती, यत् तनयनामधेयस्य फलस्य पुष्पमित्र दर्श- यित्वा गता । एवं भवतु । (ख) अत्र सिकतिले प्रदेशे केनापि वनचरेण गतेन भवितव्यम् । एषा हि पद- पङ्क्तिर्दृश्यते । - चिरादवाप्तजन्मफले मम चक्षुषी । एषा सेत्यादि । पदप्रतिबिम्बगतानि महापुरु- षलक्षणानि पूर्वानुभूतानि प्रत्येकं निर्दिशति - एषा सा कलशी । सा अनेकवारं नयनोत्सवीकृता । इदं सरोरुहं दृश्यत इति शेषः । केतुः स एव पूर्वानुभूतः । अङ्कुशः सोऽयम् । छत्रमिदम् । तुरङ्गमकरौ तौ । शङ्खचक्राविमौ । एते दृश्यन्त इति शेषः । सप्तार्णवां मेदिनीं समवतः सप्तार्णवान्तर्भूतां मेदिनीं सम्यग् रक्षतः । १ 'सखे ! स्वा' इति ख-घ. पाठ:- २- 'त्यः (स' इति ख, पाठः, ३. 'विलोक्य स इति क. पाठः, ४. 'र्षम्) चि' इति ख. पाठ:.