पृष्ठम्:तपतीसंवरणम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । सन्तो सअलं कन्दारं वाळमिअभदएं इह ट्ठिदो तुए दिट्ठो । एदं सव्वं मम अधण्णदाए परिणामो । अमात्यः -- मा मैवम् । मयि परिवादानारोपयितुकामस्य देव- स्यायं मात्सर्योपक्रमः । कुतः -- यं प्रायेण प्रथयितुमलं शाठ्यमन्तःपुराणां यं कुर्वन्ति व्यसनसुहृदो राजपुत्रापराधाः । राज्ञो यश्च स्वयमपनयात् सम्प्रवृत्तः किलायं सर्वो दोषः सचिवमनसां धूसरिम्णो विपाकः ॥ ३॥ नगरमिवादर्शनं गतः । ततोऽहमन्त्रिष्यन् सकलं कान्तारं व्यालमृगभीत्येह स्थितस्त्वया दृष्टः । एतत्सर्वे ममाधन्यतायाः परिणामः । मन्विष्य गच्छन् व्यालमृगभीत्येह स्थितस्त्वया दृष्टः । एतत् सर्वं ममाधन्यतायाः परिणामः ॥ edvesm - तच्छ्रुत्वाह- - मा मैवामिति । तवाधन्यतेति मा वादीः । मयि परिवादा- नारोपयितुकामस्य निरपवादे मयि दोषानारोपयितुमिच्छोर्देवस्यायं मात्सर्योपक्रमः मात्सर्येणोपक्रमः । तदर्थ दूरगमनादि । निरपराधे कथं दोष आरोप्यते इत्येतत् सामान्येन प्रतिपादयति - यमित्यादि । अन्तःपुराणां शाठ्यम् अ- न्तःपुरस्त्रीणां स्वकार्यपरत्वं बाहुल्येन यं दोषं प्रथयितुमलं समर्थम् । पुनः राजपु- त्राणाम् अपराधा विशृङ्खलव्यापाराः यं कुर्वन्ति व्यसनसुहृदः व्यसनस्य पो- षकाः, राज्ञ् इति । तिष्ठन्त्वन्तःपुरादयः । परिपालकस्य राज्ञः स्वस्यैवापनयाद् यः सम्प्रवृत्तः, अयं सर्वो दोषः सचिवमनसां धूसरिम्णो मालिन्यस्य अबोधस्य परिपाकः । अन्तःपुरादिदोषेऽपि सचिवदोष आरोप्यते । किलेति । इदं वस्तुतोऽपर- मार्थं, तथापि सर्वे दोषाः सचिवेषु पर्यवस्यन्तीति मयोक्तम् आरोपयितुकाम- स्येति ॥ ३ ॥ एवमुक्ता नायकमन्विच्छन् चक्रवर्तिलक्षणोपेतां पदपङ्किं दृष्ट्वाह- १ 'ए अहं इ' इति घ. पाठः, २. 'दो । एदं' इति घ. पाठः. ३. 'चाराः' इति क-ख- ग. पाठः,