पृष्ठम्:तपतीसंवरणम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरण आसन्नारूढकण्ठैरपचिततनवः प्रायशः प्राणशेषैः सङ्गृध्यद्गृध्रचञ्चुव्रजकुटिलशिरः कर्मकर्मान्तभूमिः ॥ २ ॥ तदेतदतिदारुणं व्यसनमापतितमसन्निधानादस्मत्स्वामिन इति । तत् केनचिदुपायेन तं नागाह्वयं पुरं प्रापयितुं प्राप्तोऽस्मि । तदधुना क्व भवितव्यं देवेन । विदूषकः -- (सनिःश्वासमूँ) (क) कहेमि मन्दभाओ । एत्तिअं काळं तत्तहोदीए तवणर्तणूजाए सह विहरिअ गदाअं खण- दाअं पसुत्तं मं उज्झिअ वअस्सो सो दिव्वजणसत्थो अ गन्धव्वणअरं विअ अदंसणं गओ। तदो अहं अण्णे- (क) कथयामि मन्दभाग्यः । इयन्तं कालं तत्रभवत्या तपनतनूजया सह विहृत्य ६ गतायां क्षणदायां प्रमुप्तं मामुज्झित्वा वयस्यः स दिव्यजनसार्थश्च गन्धर्व- कण्ठैरुपलक्षिताः । सङ्ग्रव्यद्गृध्रचञ्चुव्रजकुटिलशिरः कर्मकर्मान्तभूमिः आसन् सगृध्यतां मत्स्यग्रहणेच्छावतां गृध्राणाम् उपरि सञ्चरतां चञ्चुत्रजस्य त्रोटिस- मूहस्य कुटिलं वक्रं यत् शिरः अग्रभागः तस्य कर्मण आहननस्य, कर्मान्तस्य लोहकारादेः भूमिः आहननशिलास्थानमासन् | यथा कर्मान्तभूमौ सन्दंशा- दीनामुत्तेजनायाहननं, तथा आकण्टमम्बुनिरर्मग्नानां कण्ठगतप्राणानां मृतशेषाणां शीर्णप्रायरोमसु शिर गृध्राः कुटिलेन चञ्च्वग्रेण घोरशब्दं ताडयन्ति, तत्रापि प्रतिषेद्धुं न शक्तिः, तत् सह्यत एवेति कर्मान्तभूमित्वारोपेण प्रकाश्यते ॥ २ ॥ एवं दुर्भिक्षपीडां प्रतिपाद्य तच्छमनोपायं प्रतिपादयति – तदेतदित्यादिना । स्वामिसन्निधानाभावेन व्यसनमिति तं नेतुमागतः । तत् कुत्र वर्तते स्वामीति || - अस्योत्तरमाह कथयामि मन्दभाग्यः । इयन्तं कालं तत्रभवत्या तप- नतनूजया सह विहृत्य गतायां क्षणदायां सुप्तं मामुज्झित्वा वयस्यः स दिव्यजन- सार्थश्च गन्धर्वनगरमिवादर्शनं गतः । ततोऽहमन्विष्यन् सकलं कान्तार- १ 'र' इति क. पाठ: २ 'ति । के' इति ख पाठ: ३ 'मू) कि इति ख-ग. पाठः. ● 'तणआए' इति ख पाठः, 'तणूआए' इति ग. पाठः, 'कण्णआए' इति घ पाठः. ५ 'त्यो ग' इति कख पाठ. ६ ‘दो अण्णे' इति कघ पाठ:.