पृष्ठम्:तपतीसंवरणम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । एसा अदिट्ठपओहरा विट्ठी (सहर्षं परिष्वज्य) कहं अस ण्णिहिदराअं रज्जं परित्तेजिअ तुवं पि आअदो। णं पुव्ववे- रिणो वळावळित्ता दासीए वुत्ता अणुपेक्खिदव्या पञ्चाळा । अमात्यः - आसतामतिक्षुद्रपराक्रमाः केवलं पाञ्चालाः। अधुना पुनरतिभयङ्करो दुर्भिक्षोपद्रवः पीडयति तं जनपदम् । तथा हि- उद्युक्ता वागुराद्यैरहरहरुचितैर्मत्स्यबन्धप्रकारै- र्मत्या निर्मत्स्यगङ्गाह्रदगतशफरीशेषमग्नावशिष्टाः । WORK हितराजं राज्यं परित्यज्य त्वमप्यागतः । ननु पूर्ववैरिणो वलाबलिप्ता दास्याः- पुत्रा अनुपेक्षितव्याः पाञ्चाला: । - प्यागतः । त्वमपीति राज्ञो दूरीभावे त्वमवलम्बनं राज्यस्य, त्वयापि परित्यक्तेऽ- तीव दोष इति । तदेव स्फुटयति ननु पूर्ववैरिणो बलावलिप्ता ढास्याःपुत्राः अनुपेक्षितव्याः न खल्वनास्थाविषयाः । नन्विति तवापि सिद्धमेतत् । पूर्ववैरित्वं बलावलिप्तत्वं दौष्ट्यञ्चानुपेक्षणीयताहेतुः ।। -- तस्योत्तरमाह - आसतामित्यादि तेषामनास्थाविषयत्वेन न दोषः । अतिक्षुद्रपराक्रमाः न्यूनविक्रमाः । तैर्न पीडा शङ्कनीया । अधुना पुनर्वैरिभ्योऽप्यति- भयंकरो दुर्भिक्षोपद्रवस्तं जनपदं पीडयति । तथाहीति पीडाविवरणोपक्रमः । उद्युक्ता इत्यादि । मर्त्याः व्रीहियवादीनामभावेन केवलं मत्स्यग्रहणपराः अहरहः दिने दिने । उचितैः जलवृद्धिक्षयसदृशैः । वागुराद्यैः आदिशब्देन जालबडिशादयो गृह्यन्ते, तैरुधुक्ता गङ्गां प्रविश्य प्रतिदिनं ग्रहणेनोपयुक्ततया निर्मत्स्यायाः ग- ङ्गाया हृदगतेषु जलबहुलप्रदेशगतेषु शफरीशेषेषु, शफरीणामत्युपयुक्तप्रायत्वेन शेषग्रहणं, तेषु मग्नाः तद्वग्रहणायाकण्ठं जलमवगाह्य तदेकपराः, अवशिष्टाः मृत- शेषाः । अपचिततनवः अस्थिमात्रशरीराः । प्रायशः आरूढकण्ठैः प्राणशेषैरुपल- क्षिताः । प्राणशेषैरिति असृङ्मांसादिरिक्ततया प्राणानामेव शेषत्वं, तैरपि आरूढ- १ 'चय्य तुमं आ' इति ख. ग. पाठः, २ 'त्ता अ' इति ख. पाठ:. ३. 'प' इति क. पाठः,