पृष्ठम्:तपतीसंवरणम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे श्रुतं च मया तपनवनाभिधानं देवारण्यमभिमतदेवीसमे- तस्य देवस्य विहारभूमिरिति । तदन्वि (ष्ये ?ष्यामि ) तप- नवनम् ( परिक्रामन् पुरतो विलोक्य) अये असौ वयस्यः पारा- शर्यो देवस्य बहिश्वराः प्राणोः केनाप्याविष्ट इव तिष्ठति । तदमुष्मादुपलभे स्वामिवृत्तान्तम् (उपसृत्य) सखे ! पाराश- र्य ! अपि कुशलं तव । विदूषकः--(ससम्भ्रमैमवलोक्य) (क) अये अमच्चो अय्यवसुमित्तो का- (क) अये! कथममात्य आर्यवसुमित्रः । कैषादृष्टपयोधरा वृष्टिः । कथमसन्नि- प्रजानां श्वसृगालाद्याकृष्टैस्तत्र तत्र व्याप्तैरान्त्रव्रातैः भीषणम्, अन्यत्र अङ्गेषु धृतैः । तथा घोरैः शिवावाशितैः तत्र तत्र शवाकर्षणाय प्रवृत्तानां शिवानां परुषैः शब्दैः उपहतकर्णरन्ध्रनिखिलजनम्, अन्यत्र परिवारत्वेन शिवानां स्थितिः तथा दूरीभूतः वृत्त्यभावेन जनपदान्तरमाश्रितः पृथग्जनो यत्र, अन्यत्र भयेन पृथग्जनानां दूरीभावः । नराणां शिरःश्रेणीभिः तत्र तत्र मृगादिभिराकृष्टाभि- र्व्याप्तम्, अन्यत्र मालारूपेण कण्ठादिषु धृताभिः । तथा वेतालपालीवृतं तत्र तत्र शवबांहुल्येन निश्शङ्कमागताभिः पिशाचपङ्किभिः वृतम्, अन्यत्र परिजनत्वेन । कङ्कालमालावृतं भक्षितमांसैः परिशुष्कैः कायास्थिभिर्वृतम्, अन्यत्र मालारूपेणाङ्गेषु परिगृहीतैः । सर्वप्रकारेण भैरवीविग्रहवद् भयङ्करम् । पूर्वमतिसेव्यमिदानीमेवं जा- तम् ॥ १ ॥ एवं निरूप्य राजान्वेषणाय निवासस्थानं विमृशति-श्रुतं च मयेत्यादि । तपनवनाभिधानं देवारण्यमभिमतदेवीसहायस्य देवस्य विहारभूमिरिति । एवमुक्ता तदन्वेषणे प्रवृत्तः पाराशर्यं दृष्ट्वाह - देवस्य बहिश्चराः प्राणा इति । अतिस्नेहपात्र- मित्यर्थः । अनेन स्वामिवृत्तान्तोपलब्धौ सौकर्यं सूचितम् । अत एवाह – अमुष्मा- दुपलभ इति । केनाप्याविष्ट इति वेपथुपरिभ्रमादिना भूताविष्टतया शङ्कनीयः ॥ - -- T तं विलोक्य विदूषक आह - अये अमात्य आर्यवसुमित्रः । आगत इति शेषः । कैषादृष्टपयोधरा वृष्टिः । कथमसन्निहितराजं राज्यं परित्यज्य त्वम- ३. 'मं विलो' इति १. 'कम्य पु' इति क-घ. पाठः, २. 'णाः । त' इति घ. पाठ: क-ख-घ. पाठ.. ४. 'ये कहं अ' इति ग, पाठः,