पृष्ठम्:तपतीसंवरणम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । समाकृष्टः प्रकृष्टमहिमा सोऽयमपि देवो निसर्गविनयस मुद्भवशेषीप्रशमितप्रजोपद्रवः परित्यज्य स्वराज्यमियन्तं कालमिमां महाटवीमधिवसति । तदपि पुनश्चिरतरपरिव- र्जितपर्जन्यम् । तथा हि- आन्त्रव्रातविभीषणं बधिरितं घोरैः शिवावाशितै- र्दूरीभूतपृथग्जनं नरशिरःश्रेणीभिरध्यासितम्। राज्ञः संवरणस्य राज्यमधुना वेतालपालीवृतं कालीकायभयङ्करं समभवत् कङ्कालमाला कुलम् ॥ १॥ त्यादि । इदानीमस्मदवस्थान्तरे निरूप्यमाणे नीचल्यापि वस्तुनस्तत्प्रकर्षेण कौतु- कावहत्वम् । तदेव प्रतिपादयति - जघन्य एवायमिति । जघन्यो वर्गः अन्त्यो वर्गः । सर्वत्र त्रिवर्गपरिगणनेऽन्त्यत्वेन प्रसिद्धः कामवर्ग इत्यर्थः । स जघन्य एव अतिनीच एव । अस्य जघन्यत्वं युक्तमेव | नीचत्वं प्रतिपादयति कार्यद्वारा- येन समाकृष्टः परवशीकृतः । प्रकृष्टमहिमा जितेन्द्रियत्वादिनयशास्त्रोदितगुणसम्पदा- तिशयितात्मगौरवः । सोऽयं परोक्षदशायामिदानीमध्येकरूपप्रभावः । स्वराज्यं परित्यज्येत्यनौचित्यातिशयः प्रकाशितः । परिपालनापाटवेनेति चेत्, तन्न | निसर्गवि नयसमुद्भवशेमुषीप्रशमितप्रजोपद्रवः स्वाभाविकविनयोदयया शेमुष्या स्वबुद्ध्यैव अन्यप्रेरणं विना प्रशमितसर्वजनपीडः । तद्धि राजत्व फलम् । तत्रापि गुणोत्तरप्रदेश- वासापेक्षया चेन्न दोषः । तन्न | इमां महाटवीम् अतिगहन कान्तारम् अधि- वसति । तत्राप्यल्पकालं न, इयन्तं कालमित्यनेन कालस्य दैर्ध्य प्रकाश्यते । अस्य सर्वस्य निमित्तं कामपारवश्यमेवेति जघन्य इत्युक्तम् । राज्यपीडा न चेद् दूरावासे को दोष इति चेद् तन्नाह - तदपि पुनः राज्यमपि न सुस्थं, यतः चिरतरपरि- वर्जितपर्जन्यम् अतिचिरं कालं परिवर्जितः पर्जन्यो वर्षदेवो येन । अनावृष्टिपी- डितमित्यर्थः । तथाहीति तत्कार्यप्रतिपादनोपक्रमः | अधुना राज्ञः संवरणस्य राज्यं कालीकायभयङ्करं समभवत् । अधुनेति पूर्व नैवं, चिरकालमनावृष्टया दुर्भि- क्षोदयो नेत्यर्थः । राज्ञः संवरणस्येत्यनौचित्येन खेदो व्यज्यते । कालीकायवद् भय- ङ्करं जातम् । आन्त्रव्रातविभीषणमित्यादि समानधर्मः | प्राणवृत्त्यभावेन मृतानां

  • 'नृतम्' इति तु व्याख्यानुसारी पाठः,