पृष्ठम्:तपतीसंवरणम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । अहरुपगमरात्रिप्रक्रमावर्तनीयां वरतनु ! सहजां ते सायमाराधयामः ॥ १२ ॥ ( इति निष्क्रान्ताः सर्वे ) इति चतुर्थोऽङ्कः । १५३ र्थात् सिध्यति । ब्रह्मणोऽप्येतत्सेवनेनैव प्रकाशमयत्वं, किं पुनरन्येषामिति भावः । अहरुपगमे रात्रिप्रक्रमे च सन्ध्ययोर्द्वयोरित्यर्थः | आवर्तनीयाम् आवर्तनयोग्यम- न्त्राम् । देवतामन्त्रयोरभेदोपचारः । अथवा आवृत्त्या प्रतिदिनं सेवनीयाम् । अस्य तात्पर्यं वेदविदामेव ज्ञातुं शक्यम् ॥ १२ ॥ इति चतुर्थोऽङ्कः ।