पृष्ठम्:तपतीसंवरणम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ तपतीसंवरणे मेनका --- (क) महाराअ ! अळं सङ्काए । एदाए चिअ एसो कण्ण- ऊरो तं पद्जुअळं च | राजां - (सपरितोषम्) दिष्ट्या चिराद्य हृदयनिखातं संशयश- ल्यमुद्घृतं भवत्या । सखे ! सोऽयमकोपान्तरायः प्रियाप- रिष्वङ्गः । स्वीक्रियताम् । W विदूषक: - (ख) एव्वं होदु (गृहीत्वा परितो विलोकयन्) भो ! अ- कामुआणं अह्माणं अणदिक्कमणीओ सञ्झोवासणसमओ। राजा --- (समन्तादवलोक्य) सखे ! सम्यगनुप्रबोधितोऽस्मि । प्रिये ! प्रविश त्वमभ्यन्तरम् । वयमपि - अखिलभुवनयोनेरभ्युदीर्णत्रिवेदीं तनुमपतमयन्तीमम्बुजन्मासनस्य । - (क) महाराज! अलं शङ्कया । एतस्या एवैष कर्णपूरस्तत् पदयुगलं च । (ख) एवं भवतु | भो अकामुकानामस्माकमनतिक्रमणीयः सन्ध्योपासनसमयः । अकोपान्तरायः प्रियापरिष्वङ्गः अन्यस्य कोपेनान्तरायः प्रियापरिष्व- ङ्गस्य । अन्यस्य कोपेनान्तरायो भवेत् अस्य तथा न भवति । परिष्वङ्गकार्यं भवतत्यारोपः ॥ " त्वम् अभ्यन्तरं प्रविश । वयमपि सायं ते सहजाम् आराधयामः । ते सहजां सावित्रीमाराधयामः वाङ्मनः कर्मभिरर्चयामः । ते सहजामिति देवता- राधनेऽपि विधिवशात् त्वत्सम्बन्धेन हृद्यतमत्वमस्माकं जातमिति व्यज्यते । अखि- लभुवनयोनेरम्बुजन्मासनस्य तनुम् अपतमयन्तीं तमोपनयनेन प्रकाशमयीं कु- र्वाणाम् । अभ्युदीर्णत्रिवेदीम् अभ्युदीर्णा अभिव्यक्ता त्रयी यस्याः तादृशीम् । अखि- लप्रपञ्चनिर्मातुर्निखिलवेदनिधानभूतामपि तनुं प्रकाशमयीं कुर्वाणामित्यपिशब्दोऽ- १- ‘जा - दि' इति क. पाठः. २. 'तां कर्णपूरः । वि' इति ख. पाठ:. ३. ‘कः (गृ’ इति क-ख- पाठ.. ४. 'दिशी वि' इति ख. पाठः, ५. 'क्य) मो वअस्स अ' इति क- पाठः. ६. 'गणिअमो।' इति ख. पाठ एव । अ' इति क. पाठ:. ७. 'जा सखे' ९. 'त्रिलोकीं त' इति क. पाठः. - क-ख. पाठ.. ८. 'मप्यनुपदमागता