पृष्ठम्:तपतीसंवरणम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः मेनका --- (क) सहि ! अळं कोवेण । (कर्ण) एव्वं विअ । नायिका --- (ख) हद्धि अस्थाणे कवत्थिती अय्यउत्तो। (गजाभिमुखी) जेदु अय्यउत्तो । राजा--- (सहर्ष परिष्यज्ये)अयि ! अस्थानकुपिते ! तब तावदेतादृशा अलीकव्यलीका एव सम्भवेयुरमुष्मित दासजने कोपहे- तवः। मेनका --- (ग) भो राअवयस्त ! एलो के आआसणिइण्णो वतंस- ओ । गेह्ण णं । b विदूषकः --- (सभयम्) (घ) ण दाव मे खेमअरो रक्खसीणं कण्णऊरो। ण गेह्णिस्सं | राजा --- (नायिकामपवार्य) सखि ! मेनके! किमस्मान्मर्मण्युह्वट्टयासे । (क) सखि ! अलं कोपेन । एवमित्र । (ख) हा धिगू अस्थाने कदर्थित आर्यपुत्रः । जयत्वार्यपुत्रः । (ग) भो राजवयस्य ! एष ते आकाशनिगीर्णो वतंसकः । गृहाणैनम् । (घ) न तावन्मे क्षेमकरो राक्षसीनां कर्णपुरः । न ग्रहीण्यामि । कदत्थिदो कदर्थितः । अपराधित्वमारोपितमित्यर्थः ॥ तव अमुष्मिन् दासजने कोपहेतवः यथायं तथा पुनरपि अलीकव्य- लीका एव भवेयुः । अमुष्मिन् दासजने कदाचिदप्यनिष्टाचरणविमुखे । अलीकम् असत्यं व्यलीकं दुःखं येषु । केनापि हेतुना कोपः, कोपस्य परकाष्ठायां व्यलकिं भवेत् । तस्यालीकत्वाशंसया तत्कारणस्यायलीकत्वमाशंसितं भवति । अन्यथा कार्यमप्यलीकं न भवेत् । अतो यदृच्छया भावितः कोपहेतुस्तत्फलं कोपश्च मिथ्यैव भवतीत्याशंसितं भवति ॥ आआसणिइण्णो आकाशनिगीर्णः ॥ १. 'तो । राजा - (स' इति ख. घ. पाठः. २. ‘ज्य ) सखि! अ’ इति व पाठः ‘ज्य अ- स्था' इति क. पाठः ३. 'उ' इति क-ख. पाठ.. ४. ' एवं ' इति ग घ पाठः. ५. 'व खे' इति क. पाठ:.