पृष्ठम्:तपतीसंवरणम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० तपतीसंवरणे अय्यउत्तपरिभवाणळदाहेण विवज्जन्तं एवं अणुमण्णेहि । राजां--(ससम्भ्रममुपसृत्य) प्रेयसि! किं किं, परिभवानल इति । (नायिका सभ्रूभङ्गं परावृत्य प्रस्थातुमिच्छति ) राजा---(अंशुकान्ते गृह्णन् ) मम भवतु न तत्त्वतः क्षमस्ते प्रणयगतीरवगन्तुमन्तरात्मा । असदृशमवमानमात्मनि त्वं कथमिव मुग्धमृगाक्षि ! सन्तनोषि ॥ ११ ॥ रीरम् । अद्य पुनरार्यपुत्रपरिभवानलदाहेन विपद्यमानमेतदनुभन्यस्व । भगवता प्रत्युज्जीवितं मे शरीरं भवदनुग्रहेणैव भर्तुलाभप्रत्युज्जीवितं शरीरमिति जीवशरीरयोरभेदोपचारः । अस्मत्प्राणदानेन शरीरमपि रक्षितमित्यर्थः । अद्य पुनरिति अवस्थाबलेन प्रार्थनावा वैपरीत्यं जातम् । आर्यपुत्रपरिभवानलदाहेन आर्यपुत्रस्य परिभवः अनादरः अन्यस्त्रीपरिग्रहसङ्केतेन, स एवानलः तेन यो दाहः दहनं तेन विपद्यमानम् । एतत् शरीरम् | अनुमन्यत्व न निषेधोऽत्र कार्यः । का- न्तपरिभवम्यान्तर्बहिस्तापकरत्वेनानलत्वमारोपितम् ।। तद्वचनं श्रुत्वानुवदति - प्रेयसि! किं किं, परिभवानल इति । तव प्रेयसीत्वे कथमेवंवचनस्योपपत्तिरिति भावः ॥ ममेति । भवच्चित्तानुसरणैकपरस्य ( मम) ते प्रणयगतीः ते गम्भीरस्व- भावायाः प्रणयप्रवृत्तीः अवगन्तुम् एवमस्या मयि मनोवृत्तिरिति तत्त्वतो निश्चे- तुमन्तरात्मा प्रेमचपलः अक्षमो भवतु | तद् युक्तमेव | तदा तदा किमभिरुचितं किं वदतीतीच्छानुसरणदीक्षित एव । एवं स्थिते त्वं महनीयरूपा आत्मन्यसदृशम- वमानं किं करोपि । अनेनाहं परिभूता अहमनादरयोग्या इति प्रतीतिरेवात्र हेतुः, अन्यथा मां न परिभवेदिति मदभिप्रायज्ञाननिपुणया स्थातुमेव युक्तम् । असदृशत्वमेव स्फुटयति – मुग्धमृगाक्षीत्यनेन ॥ ११ ॥ १ 'न्ति मं अ' इति क स घ. पाठः. २. 'जा- (उप' इति क-घ पाठः, अयि मे' इति ख. पाठ:- ३. 'ल)