पृष्ठम्:तपतीसंवरणम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे भो वअस्स! अच्छेरं अच्छेरं । एसो कण्णेउरो अम्बरेण णिईण्णो, ण उण पुहुवीअं पडिओ। (नेपथ्ये) याभिः कल्पितमभ्युपैति नृपतिः सङ्केतमाकस्मिकं दुःखोदर्कमनात्मनीनमपृथुश्रोणीजनप्रापकम् । दग्धास्ता भृगुकर्मभिः शुभतरैर्मायाः प्रपन्ना निजं १४८ देहं मोहिनिका प्रयाति विफलीभूतक्रिया राक्षसी ॥ १० ॥ राजां--- (सहर्षम्) सखे ! तस्यां सविमानायामुपस्थितायां को नु खलु प्रत्याख्यानप्रकार इति पर्याकुलोऽहममुना सकल- मेतन्मायाजालमुपपादयता विधिना साधु सङ्कटादुत्तारि तोऽस्मि । विदूषकः -- (क) अहं पि रक्खसीए दाढाकुढारादो देव्वेण र- क्खिदोह्मि । (प्रविश्या पटाक्षेपेण कर्णपूरहस्ता) मेनका --- (ख) तुवरदु तुवरदु महाराओ । स्यैतस्य कर्णपूरस्य क्षणेनातर्कितो विनिपातः संवृत्तः । भो वयस्य ! आ- श्चर्यमाश्चर्यम् । एष कर्णपूरोऽम्बरेण निगीर्णः, न पुनः पृथिव्यां पतितः । (क) अहमपि राक्षस्या दंष्ट्राकुठाराद् दैवेन रक्षितोऽस्मि । (ख) त्वरतां त्वरतां महाराजः । याभिरित्यादि । याभिर्मायाभिः । अभ्युपैति अङ्गीकरोति । आकस्मिकं नि- र्निमित्तम् । दुःखोदर्कन् उपरि दुःखावहम् । अनात्मनीनम् आत्मने अहितम् । अपृथुश्रोणीजनप्रापकं पृथुश्रोणीजनप्रापकं च न । भृगुकर्मभिः मायाशमनैः कर्मभिः । प्रपन्नेत्यादि वाक्यान्तरम् ॥ १० ॥ १. 'उ' इति क-घ पाठः २. 'जा--सखे' इति ख पाठ:. ३. 'सानन्दम् ) सखे' इति ग पाठ: ४. 'क' इति -घ पाठ: ५. 'स्ता मेनका ) में' इति क पाठ: ६. 'ओ। ज' इति क ग घ पाठः