पृष्ठम्:तपतीसंवरणम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः। १४७ वचनम् । तथाप्येवमिदानीमेनां यापयामि । (प्रकाशम् ) भद्रे ! केषामनभिमतानि सचेतसामेतादृशानि स्वयमु पनतानि स्त्रीरत्नानि । किंबहुना, स्थिता वयमत्रभवत्या वचसि । राक्षसी- (सहर्षम्) (क) जीवाविदह्मि महाराअस्स पसादेण । ता अज्ज पओसे सवअस्सेण महाराएण एत्थ सण्णिहि- देण एव्य होदव्वं । मं पि विमाणं गेह्मिअ आअदं एव्व मण्णह। (निष्क्रान्ता) विदूषकः --- (ख) भो वअस्स ! कि तुए ववसिदं । ACK राजा - अनभिज्ञो भवानस्माञ्चित्तवृत्तीनाम् । किं वा तपतीगुण- निगलितों चित्तवृत्तिमन्यत्र चलयितुमलम् । साहसोपक्र- मभीरुणा मयैतदुपन्यस्तम् । इदं पुनस्तदङ्ग सम्पर्काभि- मानदुर्ललितम् अन्यनारीगण्डोप श्लेषोपहतमपहस्तय क- र्णपूरम् । विदूषकः --- (विहत्य) (ग) अहो राजउळसेवआणं परिवाओं, जं एत्तिअं काळं भुअन्तरोवळाळिअस्स एदस्स कण्णेउरस्स खणेण अतक्किओ विणिवादों" संवुत्तो। (कर्णपूर क्षिप्त्वा) (क) जीवितास्मि महाराजस्य प्रसादेन । तदद्य प्रदोष सवयस्येन महाराजेनात्र सन्निहितेनैव भवितव्यम्। मामपि विमानं गृहीत्वागतामेव मन्यस्व । (ख) भो वयस्य ! किं त्वया व्यवसितम् । (ग) अहो राजकुलसेवकानां परिवादः, यदेतावन्तं कालं भुजान्तरोपलालित- १. 'त्थ ए' इति क-ख-घ. पाठ: २. 'व्य अणुम' इति घ. पाठ: ३. 'न्ता राक्षसी) वि' इति ग. पाठः ४. 'क: किं' इति क. पाठा, ५. 'तं हृदयम' इति क. पाठ:. ६. 'स्स क' इति ख. पाट.. ७. स्स कहे अतकिओ खणेण वि' इति घ. पाठः, 'स्स अतक्किओ खणेण वि' इति ख-ग. पाठः, ८. 'दो (क' इति क. पाठी,