पृष्ठम्:तपतीसंवरणम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुथाऽङ्कः । राक्षसी --- (सरोषम् ) (क) अहके ळोशपळित्ता माआइण्डेहि निक्खमोक्खेहि । शंवळणश्श शळीळं भज्जिवशं शळिळकुम्भं व ॥ ८ ॥ अज्ज शंवळणशळशदमुशिदजीवि अशअन्धाहिं शअळ- ळक्खशीहिं शाणुणअं अन्भत्थिदति “शहि! मोहिणिए ! तुझं माआबळेण इशिशळणं ळाआवशदं शेवळणं कहं विगेह्णिअ शमदमज्झे पक्खिऊण माळेहि "त्ति। शा वि अहं तेण वावादिअपुत्तशदा विउणिअळोशा शहीणं णि- ओअं कादुं ववशिदह्मि । ता अण्णेशिश्शं दाव । (परिक्र- म्यावलोक्य) एशे एशे केण विवहह्मणेण शह शन्दाणळदाम- ण्डवे चिट्ठइ (विदूषकमवलोक्य सृक्किणी परिवहन्ती) एवं बह्मणं अहं रोषप्रदीप्ता मायादण्डैस्तीक्ष्णमोक्षैः । संवरणस्य शरीरं भक्ष्यामि सलिलकुम्भमित्र || अद्य संवरणशरशतमुषितजीवितसगन्धाभिः सकलराक्षसीभिः सानुनयम- भ्यर्थितास्मि—“ सखि ! मोहिनिके ! तब मायाबलेन ऋषिशरणं राजापशदं संवरणं कथमपि गृहीत्वा समुद्रमध्ये प्रक्षिप्य मारय " इति । साप्यहं तेन व्यापादित पुत्रशता द्विगुणितरोषा सखीनां नियोगं कर्तुं व्यवसितास्मि । - प्रविष्टा सा सरोषमाह – अहके इत्यादि । अहं रोषप्रदीप्ता मायादण्डैस्ती- क्ष्णमोक्षैः । संवरणस्य शरीरं भक्ष्यामि सलिलकुम्भमिव || ८ || संवरणशरशत- मुषितजीवितसगन्धाभिः सकलराक्षसीभिः सानुनयमभ्यर्थितास्मि । सगन्धाः बन्धवः । सखि ! मोहिनिके! तव मायाबलेन तम् ऋषिशरणं राजापशदं कथमपि गृहीत्वा समुद्रमध्ये प्रक्षिप्य मारयेति । साप्यहं तेन व्यापादितपुत्रशता (स्मि ?) द्विगुणि तरोषा सखीनां नियोगं कर्तुं व्यवसितास्मि । तदन्वेषि (प्ये ? प्यामि) तावत् । एष एष केनापि ब्राह्मणेन सह (मन्दार ? सन्तान) लतामण्डपे तिष्ठति । एतं ब्राह्मणं ३. 'म्य) ए' इति क. पाठः. १. 'स्स' इति ख. पाठ:. २. 'णं श' इति क. पाठ:. ४. 'रिलेलि' इति ख. पाटः.