पृष्ठम्:तपतीसंवरणम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे विदूषकः – (क) जइ एव्वं ववसिदं, जदा सोत्थिवअणकाळो भविस्सदि तदा सम्पण्णो बह्मणो सुमरिदव्यो । मेनका --- (ख) मुक्ख ! किं तव एदिणां । (राज्ञो मुखात् कथमपि दृष्टिमाक्षिपन्ती सख्या सह सपरिवारा निष्क्रान्तौ नायिका) राजा - वयस्य ! केनेदानीं विनोदेन सहचरीविप्रवासमलीमसं कालं यापयामि । विदूषक: --- (सनिर्वेदम्) (ग) को एत्थ णिम्माणुसे जिण्णाडवीम- ज्झे विणोदो । एत्तिअमत्तं एत्थ सारं। जइ रक्खसीणं फुळ्ळीणं च मुहे अपडिअ सञ्चरिदुं पारिज्जइ, तदो सक्कं सन्दाणरुक्खादो भिक्खं अडिदुं । (ततः प्रविशति भीषणवेषा राक्षसी) (क) यद्येवं व्यवसितं, यदा स्वस्तिवाचनकालो भविष्यति, तदा सम्पन्नो ब्राह्मणः स्मर्तव्यः । (ख) मूर्ख ! किं तवानेन । (ग) कोऽत्र निर्मानुषे जीर्णाटवीमध्ये विनोदः । एतावन्मात्रमत्र सारम् । यदि राक्षसीनां फुल्लीनां च मुखे अपतित्वा सञ्चरितुं पार्यते, ततः शक्यं सन्तानवृक्षाद् भिक्षामटितुम् । एवं प्रसक्ताय रतिपूजनाय तस्यां गतायां प्रवृत्तिः प्रतिपाद्यते । सारम् उ- पादेयम् । फुळ्ळीणं फुल्लीनां व्याघ्रीणाम् || अथ नायकयोर्यादृच्छिकप्रणयकलहप्रस्तावाय राक्षसीप्रवेशः || १. 'व' इति क. पाठ: २. 'णा । (नायिका रा इति क घ. पाठः. ३. "न्ता । रा. इति क. घ पाठ:. ४ ४ 'नोदनेन ' इति क-ख. पाठ:. ५. 'वः' इति क-ग. पाठ: ' ६. 'कः -- को' इति ख. पाठ:. ७. 'दो । ज' इति घ. पाठः. ८. 'अंए' इति क. पाठ:. • ९. 'णअरु' इति ग. पाठ:.