पृष्ठम्:तपतीसंवरणम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः राजा --- ( नायिकामुखमवलोक्ये सस्मितम्) अतिललितोऽयमाराधनक्र- मः । इदं पुनर्विपरीतं वर्तते । सम्प्राप्तुं रतिरसिताक्षि ! कामदायाः सा कामं वरमुपयाचतां भवत्याः । नामुष्याः पशुपतिलुप्तभर्तृकायाः सम्प्राप्यं तव दयिते ! समर्थयामि ॥ ७ ॥ नायिका – (क) अय्यउत्तमुहे एव्व किदवसदीणि चाडुवअणाणि । मेनका --- (ख) एत्तिएण वि काळक्खेवेण सङ्किदं णो हिअअं । ता अणुमण्णेदु महाराओ । राज --- प्रिये ! यद्येवं, निर्वर्त्त्यतां तव सखीप्रणयः । (क) आर्यपुत्रमुख एवं कृतवसतीनि चाटुवचनानि । (ख) एतावतापि कालक्षेपेण शङ्कितं नो हृदयम् । तदनुमन्यतां महाराजः । कुसुमासर्वैरर्घ्यं ते दास्यामीति । एषोऽर्थः सङ्गमसुखेनेयन्तं कालं विस्मृतः सख्या । तत् तन्निमित्तोऽयमारम्भः || - इति मेनकावचनमाकर्ण्य नायिकाभिमुखं सस्मितमाह - अतिललितोऽय- माराधनक्रमः । ललितत्वेन तत्कार्य दुत्वं लक्ष्यते । इदं पुनर्विपरीतं वर्त विपरीतमित्याराध्याराधकभावस्य व्यत्यासेन सिद्धत्वाद् वैपरीत्यम् । तदाह - स म्प्राप्तुमिति । असिताक्षि! असिताक्षीति स्वरूपचातुर्यमनिरूप्य तवोपयाचने स- म्भ्रमो जातः । रतिः भवत्याः कामं वरं सम्प्राप्तुमुपयाचतां 'मम भर्तारं दास्यसि चेदहमेवं करोमी'ति। यतः कामदायाः कामदाने तव स्वातन्त्र्यम्, अतो रतेस्त्वां प्रत्युपयाचनं युक्तम् । दयिते ! तवानुष्या रतेः सकाशाद् उपयाचनेन सम्प्राप्यं न समर्थयामि । यतः पशुपतिलुप्तभर्तुकायाः पशुपतिना नयनाग्निदग्धकान्तायाः, अशरणायाः । तव सर्वकामसम्पूर्णायाः । एवं स्थिते उपयाचनदानाय रतिपूजनो- पक्रम इत्युक्तं विपरीतम् ॥ ७ ॥ १. 'कां विलो' इति ख. पाठः, 'काभिमुखः स' इति घ. पाठः. २. 'क्य) अ' इति क. पाठः. ३. ‘ण्ण' इति ग. पाठः. ४. 'जाय' इति क. पाठ: