पृष्ठम्:तपतीसंवरणम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे नभसि परिपतन्तो भान्ति पूराः कराणां स्वसुरिव तत्र संख्या: स्रोतसामम्बुराशौ ॥ ५ ॥ (नेपथ्ये ) सकुसुममधुगन्धधूपदीपाद्युपकरणान्युचितानि सम्भृतानि । अयमिह रतिपूजनाथ देव्यै समय इति त्वरितं निवेदनीयम् ॥ ६ ॥ नायिका --- हं' । राजा -- सखि ! मेनके ! किमेतदुपक्रान्तम् । ४ मेनका --- (क) सुणाहु महाराओ। महाराअसङमादो पुव्वं ए- दाए भअवदीए रदिदेवीए उवआचिदं-- जदा अय्यउत्तेणं सङ्गमिस्सं, तदा महुअराणुच्छिट्ठेहि कुसुमासवेहि अ- ग्धं दे दइस्सं त्ति । एसो अत्थो सङ्गमसुहेण एत्तिअं काळं विसुमरिदो सहीए । तण्णिमित्तों खु अअं आरम्भो । (१) शृणोतु महाराजः। महाराजसङ्गमात् पूर्वमेतया भगवत्यै रतिदेव्यै उपयाचि- तं यदायपुत्रेणाहं सङ्गस्ये, तदा मधुकरानुच्छिष्टैः कुसुमासवैरर्ध्य ते दा - स्यामीति । एषोऽर्थः सङ्गमसुखेनैतावन्तं कालं विस्मृतः सख्या । तन्निमित्तः खल्वयमारम्भः । नायाः सख्या गङ्गायाः स्रोतसां, पूरा इत्यनुषङ्गः परिपतन्त इति च, यथा गङ्गा- प्रवाहा: समुद्रे पतन्तः शोभन्ते, तथा नभसि प्रसरन्तो हारस्य रश्मिसञ्चया इत्यनेन हारस्य लोकोत्तरं गौरवं समर्थितम् । अत एवोचितस्थानप्राप्तिरस्य युक्तै- वेति गुणप्रशंसनम् ॥ ५ ॥ सकुसुमेत्यादि । देव्यै निवेदनीयमित्यन्वयः ॥ ६ ॥ सुणादु महाराओ इति मेनकाया उक्तिः । महाराजसङ्गमात् पूर्वमेतया भगवत्यै रतिदेव्यै उपयाचितं - यदार्यपुत्रेण सङ्गस्ये, तदा मधुकरानुच्छिष्टैः ७. १. 'हा' इति क. पाठ:. २. ‘तद् । मे' इति क. पाठ:. ४. 'वी उ' इति ख. पाठः. ५. 'दा' इति ख. पाट:. ‘त्तं अ' इति ख पाठ:. ३. 'दीर' इति ख पाठः. ६. 'अहस' इति घ. पाठः,