पृष्ठम्:तपतीसंवरणम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । सचावळादो विउणं बह्मणचावळं तुभं पुच्छ। कुदो' एद- स्स विह्नअणिज्जस्स हारस्स आगमो । मेनका --- (क) अत्थि पञ्चजण्णसम्भूदेहि मोत्तिएहि रइओ भअ- वदा तिबिक्कमेण अन्तचरणसम्मूदाए गङ्गाए दिण्णो हारो। सो एसो तिस्से सहीए काळिन्दी बहिणिआए पेसिदो । राजा - अयि सवितृसम्भवे! सोऽयमतिचिरादात्मोचितां भुवम- वतीर्णः । अपि च a कुचसरसिजबन्धोरस्य हारस्य गौराः परभृतपरिपाटीपक्षतिश्यामलेऽस्मिन् । कुत एतस्य विस्मयनीयस्य हारस्यागमः । (क) अस्ति पाञ्चजन्यसम्भूतैमौक्तिकै रचितो भगवता त्रिविक्रमेणात्मचरण- समुद्भूतायै गङ्गायै दत्तो हारः। स एष तस्याः संख्या कालिन्द्याभगिन्यै प्रेषितः । MES अस्तीत्यादि । आत्मचरणसमुद्भुतायै गङ्गायै दत्त इति दानौचित्यमुक्तम् । एष तस्याः संख्या कालिन्द्येति स्वाधीनताद्योतकम् । अत एव भगिन्यै अस्यै कालिन्द्या प्रेषितः चेट्या समर्प्य दत्तः || एवं हारागमनं श्रुत्वा गुणवर्णनेन नायिकाया विस्रम्भं परिपोषयति अयीति । सवितृसम्भवे! इति उत्पत्तिगौरवस्य सदृशमेव तव सर्वम् । यतः सोऽयं हारोऽतिचिरात्, पूर्वं पाञ्चजन्यत उत्पत्तिः, ततो भगवत्प्रतिग्रहः, ततो गङ्गा- प्राप्तिः, ततो यमुनापरिग्रहः, ततो जन्मान्तरकृतगौरवेण (चरणो? चिरेणा) पि ततस्ततो निर्गम्येदानीं स्वगौरवसदृशी भुवमवतीर्णः | अपि चात्र विशेष कथ यामि – कुचसरसिजस्य बन्धोः सन्निधानेन शोभाकरत्वाद् बन्धुत्वम् । अस्य हारस्य कराणां पूरा नभसि परिपतन्तः परितः पतन्तः प्रसरन्तो भान्ति । गौरा इत्यौपम्य- स्फुटीकरणाय । परभृतानां परिपाटी परम्परा, तत्पक्षतिवत् श्यामले । अत्रापि सादृश्यवैशद्याय श्यामलत्वकथनम् | अस्मिन् पतन्तः कथं भान्ति | तव स्वसुर्यमु १. 'दो वि' इति ख-घ. पाठः- २. 'म्भवाए' इति ख. पाठः, , www.c