पृष्ठम्:तपतीसंवरणम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिम्बाधरेण सुतरावरुणेन सैषा क्षौमस्य कल्पकभुवः किरणैर्हरिद्भिः आताम्म्रकोमलकरा समुपैति देवी प्रेमानुयातपितृसङ्ग्रहसङ्गतेव ॥ ३ ॥ नायिका -- (उपसृत्य) (क) जेदु अय्युन्तो | मेनका ---(उपसृत्य) (ख) जेदु महाराओं। राजा --- (सादरमुत्तिष्ठन्) सर्वाङ्गीणेन तन्वङ्गि ! स्तनस्पर्शमृतेन मे । निर्वापयन्ती गात्राणां परिपूरय लालसम् || ४ || (परिष्यज्योपविक्षन् ) सखि मेनके! सनाथीक्रियतामासनम् । (क) जयत्वार्यपुत्रः । (ख) जयतु महाराजः । अरुणेन सारथिना । विम्वाधरस्वारुणत्वमारोपितम् | आरुण्यमपि स्फुरति । अत्र सुतरामित्यरुणपदेन सम्बन्धे अरुणत्वमेव वाच्यं भवेत् । तत आरोपो न सिं- ध्यति । अतः सुतरां प्रेमानुयातेति योज्यन् । एवं कल्पकभुवः तदुद्भवस्य क्षौमस्य परिधानीयस्य उत्तरीयस्य वा किरणैः कान्तिभिरेव हरिद्भिः सूर्याश्चैः । हरिद्वर्णैरिति च स्फुरत्यारोपसङ्गतये । तथा आताम्रकोमलकररूपकरा इति श्लिष्टं वाचकम् । रश्मीनामपि तत्संग्रहात् तत्राप्यारोपः । एवं वेषकृतं रूपकृतं च चातुर्ये प्रकाशितम् ॥ ३ ॥ आगतां प्रार्थयते - तन्वाङ्गि ! अहं त्वदसौकुमार्यमनुसराम्येव । अतः स्तनस्पर्शामृतेन गात्राणां लालसम् आलिङ्गनौत्सुक्यम् | परिपूरय सफलय । कथं स्तनस्पर्शेन सर्वाङ्गसुखं तत्राह - सर्वाङ्गीणेन सर्वाङ्गव्यापिना । अत एवामृत- त्वारोपः । अमृतस्यैकदेशसिक्तस्य सर्वाङ्गव्यापकत्वम् | अमृतासेकापेक्षया पूर्व मृतप्रायत्वं ध्वनितम् ॥ ४ ॥


१. 'ते' इति ख. पाट:. २. 'शति' इति क-ख. पाठः,