पृष्ठम्:तपतीसंवरणम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सूत्रधारः- श्रीः । श्रीकुलशेखरवर्मभूपालविरचितं तपतीसंवरणं विवरणसमेतम् । प्रथमोऽङ्कः । ( नान्द्यन्ते ततः प्रविशति सूत्रधारः) लक्ष्मीर्घर्मजलच्छलेन सुधया दन्तच्छदच्छ्द्मना सोदर्येण च कौस्तुभेन शकलेनेन्दोर्लंलाटात्मना । प्रणिपत्य चन्द्रचूडं श्रीमत्कुलशेखरावनीन्द्रकृतम् । तपतीसंवरणाख्यं नाटकमधिकृत्य विवरणं क्रियते ॥ ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः । व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ॥ -- इह खलु परमभागवतेन श्रीकुलशेखरवर्मणा नाटकमुखेन प्रयुक्तं मङ्ग- लाश्रयं लक्ष्मीशब्दं तदनुगुणं गणं च इतिवृत्तसूचनप्रविष्टनटमुखेन प्रयुञ्जताविघ्न- समाप्त्यादिसकलसमीहितसाधनं मङ्गला चरणमासूत्रितम् । ततः प्रविष्टः सूत्रकृत् साम्मुख्यसम्पादनाय सामाजिकान् प्रत्याशिषं प्रयुङ्क्ते – लक्ष्मीरित्यादि । लक्ष्मीः भवतां कामप्रसूः कल्पताम् । लक्ष्मीः निजकटाक्षपातमात्रजनितविश्वोदयलक्ष्यवै- भवा भुवनमाता | भवताम् अर्थात् सामाजिकानां पूज्यतमानां युष्माकम् । काम- प्रसूः काम्यन्त इति कामाः सकलपुरुषार्थतत्साधनरूपाः तेषां यथापेक्षं सम्पाद- यित्री | कल्पतां सम्पद्यताम् । देवतान्तराणां प्रतिनियतफलसम्पादन एव साम- र्थ्यम् इयं सर्वकामान् प्रसूते । युष्माकं यथारुचि यथाधिकारं सर्वसाध्यभरसहिष्णुत्वं चास्ति । तत इदमेवाशास्यत इति भावः । तत्र परदेवतां साध्यानुगुणं विशिनष्टि-