पृष्ठम्:तपतीसंवरणम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ इति । तदेव श्रीवाचकतिरुशब्दपूर्व 'तिरुवञ्चिक्कळं' भवति महोदय पुरशब्दितम् । अस्य कवेर्जीवितसमयो न निश्चितः । तथाप्ययं दशरूपककर्तुः कैस्ता- ब्दीयदशमशतकजीविनो धनञ्जयादर्वाचीन इत्यत्र न सन्देहः, यतोऽत्मत्कविसम- कालिकः पूर्वोक्तो व्यङ्गयार्थव्याख्याकारो दशरूपकं स्मृतवान् । आश्चर्यमञ्जरी- नामधेयः कथालक्षणो गद्यकाव्यविशेषोऽप्यनेन प्रणीत इति प्रस्तावनातो विज्ञा- यते । तस्याश्च कश्चित् प्रयोगः “कुरङ्गैरिव कुशलवादिभिरित्याश्चर्यमञ्जरी च" इत्येवं प्रमाणितोऽमरकोशव्याख्याने टीकासर्वस्वनाम्नि “भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्" इत्यत्र कुशलशब्दव्युत्पादने | टीकासर्वस्वकारो वन्द्यघटीयः स- र्वानन्दस्तु “ दैवे युगसहस्रे द्वे ब्राह्मः" इत्येतद्विवरणप्रसङ्गाद् “इदानीं चैकाशीतिवर्षाधिकसहस्रैक (१०८१) पर्यन्तेन शकाब्दकालेन षष्टिवर्षाधिकद्विचत्वारिंशच्छतानि (४२६०) कलिसन्ध्याया भूतानि” इति तादात्विकं शकाब्दं कल्यब्दं च वदन् खस्य ११५९ तमे क्रैस्तवर्षे सत्तां प्रकाशयति । तेनास्मत्कविस्तस्मात् प्राचीन इत्यप्यवधार्यते । यदि तु देशिक- प्रबन्धायुक्तस्य कुलशेखरस्य कलेरष्टाविंशं पराभववर्षं तथा च- १६८० तमं कलिवर्षे -- जन्मसमय इति तत्प्रसिद्धेः प्रामाण्यमुपगम्यते, तर्हि मा भूदस्मत्कवे- स्तदभेदः, तद्वंश्यता तु तत्रभवतो वक्तुं शक्या । व्याख्यानकारः शिवरामः कुत्र कदा जात इति न ज्ञातम् । एतद्व्याख्यान- सदृशं 'सुभद्राधनञ्जय'स्यापि व्याख्यानमनेन निर्मितमस्ति, यत् तेन सहास्यां ग्रन्थावलौ ग्रथयिष्यामः ॥ अनन्तशयनम् . त. गणपतिशास्त्री.