पृष्ठम्:तपतीसंवरणम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ •भूयश्वारोपयिष्यामि रङ्गमेतत् कुशीलवैः । इति तेन प्रोक्तस्तदर्शितप्रयोगमार्गोऽहम् ...... इति । तेनास्मत्कविः केरलेश्वर इत्यपि विज्ञायते, महोदयपुरं च परमेश्वरमङ्ग- लाच्चूर्णीनदीजलपथेन प्राप्यमिति । इदं च महोदयपुरं 'तिरुवञ्चिकळम् ' इत्यधुना देश्यभाषया व्यपदिश्यमानं ग्राममभियुक्ता आहुः, यो गोश्रीराज्यान्तः- पातिनः 'कुरुम्बालयनगरस्या'न्तिके सन्निविष्टः | चूर्णी' च 'पेरियार्' इत्याहुः । यत्तु परमेश्वरमङ्गलमुदाहृतोपोद्धातोक्तं, तद् व्यङ्ग्यव्याख्याकारस्य ब्राह्मणस्य निवासस्थानं भवेद् ‘देशमङ्गला' दिकमिवाभिजातब्राह्मणानाम् । तस्य पुनः किं नामधेयं, परमेश्वरमङ्गलं क्व निविशते, केन नाम्नाद्यत्वे व्यपदिश्यते, तत्र व्यङ्ग्य- व्याख्याकारवंश्यः क इदानीं वर्तते -- यत्सकाशात् तत्पूर्वपुरुषस्य कुलशेखर- वर्मसमकालिकस्य कालविज्ञानं प्रत्युपायलाभप्रत्याशा स्याङ्; इत्यादिकं तु कृतप्रय- त्नेनापि मया न विज्ञातुं पारितम् * | केवलमस्माद् व्यङ्ग्य व्याख्याग्रन्थात् तत्कर्ता राजरहोविस्रम्भपात्रं कश्चित् पण्डितबन्धुरिति प्रतीयते । स एष एवंगुणस्तपती- संवरणकविः श्रीवैष्णवप्रबन्धेषु परमभागवतत्वेन गणितः कुलशेखराळवार् इति कीर्तितः कुलशेखरभूपतिरेव कामं संभाव्यते, यस्माद् राजत्वम्, अभिजनदेशः, परमभागवतत्वं च द्वयोः समानमवगतम् | तस्याभिजनभूमिर्हि 'वञ्चिक्कळम्' इत्यु- च्यते श्रीवेदान्तदेशिककृते द्रमिलप्रबन्धे, यथा- -- 50 6GLIIT 507 1 | SIji GupgrGFarCom Wशक यमके ऊना के Gm চr ী অy - Goo Q7&LIT D Cऊक 50 " Gor 504 GEतुनही w GFii की तु ना QFis 1660 51 2 SIT GON LD GST Gossir GQ के क ী om Fud D EIT ढंग 0 1 6 GM QWions LITLG 15667 कक तू & Cu (BJus Fin-1)

  • मत्प्रियमित्रं (कोटुङ्गहूर्) कुञ्ञिकुटापरनामा श्रारामवर्मराजमहाशय इममर्थमनुयुक्त

आह - 'कदा स राजासीत् केके वा तस्य सदस्या विद्वांसः; इत्यादिकं सूक्ष्मतो विज्ञातुं न श क्यत एव । युधिष्ठिरविजयनामकयमककाव्यकर्ता वासुदेवभट्टः तोलाभिधो विदूषक निर्विशेषो . ब्राह्मणश्च कुलशेखरवर्मसदस्यावास्तामित्यनुश्रूयते । परमेश्वरमङ्गलालयश्वेदेतयोद्वितीय विद्वान् सम्भाव्येत; तन्नासमीचीनं स्यादिति मन्ये । एष किल केवलं वंशक्रमेण माहोदयपुराधीशचरित- काव्यं व्यरचयदिति प्रसिद्धम् । न तु दृष्टचरोऽयं ग्रन्थ' इति ।