पृष्ठम्:तपतीसंवरणम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पृष्टागमनहेतुः स मामवोचदिदं वचः । भवन्तमधुना राजा संदिक्षुरिति स्म सः || अथ मयामुना सहारूढखट्दाशय्यासम्पादितस्वादुवस्तुसौख्यया नावा चू- र्णिकासरिदावाह्यमानया सत्वरं महोदयाख्यं पुरं गम्यते स्म । अथ तत्र तदा गच्छन्नपश्यं केरलाधिपम् । समासीनं विराजन्तं मध्येनागारिविष्टरम् || किरीटमकुटप्रोद्यन्मणिश्रीलिप्तवर्णकम् । उन्नम्रभालघोणांसबाहुमूलोदरान्वितम् || दूरदीर्घाक्षिदोर्जङ्घायुगलाञ्चितविग्रहम् । अङ्कविक्षिप्तनखरं सर्वलोकप्रियं नृपम् || सप्रश्रयमहं तत्र सदस्यवहितोऽगमम् । निष्यन्दमानसुधया वाचा सत्कुरुते स्म माम् ॥ मुहूर्ते स्थितवत्यस्मिन् मय्यत्र स महीपतिः । श्रितप्रसादया दृष्ट्या वीक्षमाणः सभासदः || अनुज्ञाप्योदगात् तस्मान्निरगच्छन्मया सह । रहो नर्म वदन् प्रायान्मन्त्रशालामनन्यगाम् || अथावदत् सुखासीनं मां नरेशः प्रहृष्टवान् । 0.46 DO0O ००० .... रचिताद्य मया विद्वन् ! कथञ्चिन्नाटकद्वयी || एकं संवरणं नाम धनञ्जयमितीतरत् । ध्वनिलक्षणयुक्ता सा रचिता नाटकद्वयी || ध्वनियुक्काव्यसरणिः शस्तेति प्रोच्यते बुधैः । एतस्माद् ध्वनियुक्ता सा रचिता नाटकद्वयी || द्रष्टव्या भवता सेयं नाट्यलक्षणवेदिना । तां पश्यन्नवधार्यैषा सदसद्वेति कथ्यताम् ॥ साधुश्चेत् प्रेक्षको भूयाद् भवानस्मि नटस्तथा । प्रयोगमार्गं भवते दर्शयिष्यामि तत्त्वतः ||