पृष्ठम्:तपतीसंवरणम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना । इदं नाटकं तपती संवरणावधिकुर्वत् तपतीसंदरणमित्याख्यातम् । कुरु- पितुस्तपतीपतेः संवरणस्योपाख्यानं यत्तद् महाभारते आदिपर्वणि (अध्या. १७१- १७३) वर्णितं, तदिह प्रतिपाद्यं वस्तु । अत्र यावती, व्याख्यानेऽप्यस्यानेन सह प्रकाशिते तावती रसानुगुण्यैकान्तहृदयङ्गमा गुणानां समृद्धिः । अस्मद्विदिते काव्य- व्याख्यान वर्गेऽनेन व्याख्यानेन सह गणनामर्हन् व्याख्यानग्रन्थ एव कश्चिन्नास्तीति शक्यं वक्तुम् । अत्य नाटकस्य संशोधनावारतया चत्वार आदर्शा: शुद्धप्राया द्वित्रशतवर्ष- वृद्धा राजकीयग्रन्थशालायामुपलब्धाः, व्याख्यानस्य त्वेकः । स च शुद्धः प्रायः । तेषां च पाठभेदाः क.ख.ग.घ. चिह्नकरणेन तत्तत्पृष्ठेषु निवेशिताः । कविः पुनरस्य नाटकस्य 'महोदयपुरपरमेश्वरः परमहंसपादपद्माराधकः केरलकुलचूडामणिः कुलशेखरवर्मा' नाम कश्चिद् राजेति प्रस्तावनायानुक्तम् । भरतवाक्याच्च श्रीधरविषयभक्ति परिपाकप्रार्थनपरात् तस्य विष्णुभक्तत्वं गम्यते । व्याख्याता चैनम् ‘अथ परमभागवतः श्रीकुलशेखर' इति वदन् विष्णुभक्तोत्तमं मन्यते । अस्ति एतस्य नाटकस्यैतत्कविकृतेः सुभद्राधनञ्जयस्य च व्यङ्गयार्थमा- त्रप्रतिपादनपरा काचिद् व्याख्या, या प्रकृतस्य व्याख्यानस्य द्वितीय श्लोके - 'ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः । - व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ।' इति स्मृता । तस्या उपोद्धाते तत्कर्ता वदति - “कालेऽथेति वर्तमाने कस्मिंश्चिदह्नि प्रातरुत्थाय पुत्रापहृतगार्हस्थ्येनोत्थाय चूर्णिकासरिद्वारि अनुष्टितपूर्वसन्ध्येन दृष्टपरमेश्वर मङ्गलस्थपरमपुरुषेण प्राप्तात्म मन्दिरालिन्द्रदेश प्रक्षालितकरचरणेन हसन्तिकोद्यत्कृशानुशमित- शीतरुग्णेन जपध्यानपरेण मया केरलेश्वरवचनकारी कश्चिद् ब्रह्मवन्धुः 9 समलक्ष्यत । सच सत्कृतसत्कारी यथाविधि सुमानितः | संपृष्टकुशलप्रश्नः सादरं स्थापितो भुवि ||