पृष्ठम्:तपतीसंवरणम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । सम्यगाह भवान् । न केवलं तव सख्या विप्रयोगवि धुरं हृदयमेव । कुतः -- वक्षः कुचकलशाभ्यां चक्षुर्वपुषा ममास्यमधरेण । नैतत् क्षणमपि तस्याः क्षमते विश्लेषवैक्क्लव्यम् ॥ २ ॥ विदूषकः - (विहस्य) (क) परिणअणादो पुव्वं सङ्गमो सङ्गमो त्ति परिदेविअं । अज्ज उण विरहो विरहो त्ति अक्कन्दसि । ता अदिदुस्सहो दे संसारो । (कर्णं दत्वा) भो मा सन्तप्प । एदेण णेउरसद्देण कमळिणी विअ कळहंसरवेण पञ्चास- ण्णा सूइज्जइ तत्तहेदी | (ततः प्रविशति नायिका मेनका च विभवतः सपरिवारा) नायिका- (ख) सहि ! अदिदुक्खरं खु मए किदं, जं पडिकम्म- (क) परिणयनात् पूर्व सङ्गमः सङ्गम इति परिदेवितम् । अद्य पुनर्विरहो विरह इत्याक्रन्दसि । तदतिदुस्सहस्ते संसारः । भो मा सन्तप । एतेन नूपुरश- ब्देन कमलिनीव कलहंसरवेण प्रत्यासन्ना सूच्यते तत्रभवती । (ख) सखि ! अतिदुष्करं खलु मया कृतं, यत् प्रतिकर्मप्रसङ्गेनार्यपुत्रमपश्यन्त्या

च्चिन्तयति, अन्यन्मया प्रलपितमिति - सम्यग् भवानाह । प्रियाविप्रयोगवैधुर्यमत्र हेतुरित्यनुवादरूपेणाह - न केवलमिति । तव सख्या मत्सख्युस्तव मप्रिया सख्येवेति तथोक्तम् । विप्रयोगः प्रसाधनादिकृतः तेन वि- धुरं हृदयमेव न केवलं विश्लेषवैक्लव्यं न सहते । ममैतद् वक्षः क्षणमपि कुचकल- शाभ्यां विश्लेषवैक्लव्यं न सहते कुचकलशसंश्लेषे वक्षसोऽधिकार इति वक्षसः कथनम् । चक्षुर्वपुषा । आस्यमधरेण । शेषं पूर्ववत् । वक्षःप्रभृतीनां वैक्लव्यमा- रोपितम् ॥ २ ॥ - अथ नायिकाया विरहासहत्वं प्रकाशयति - सखि ! अतिदुष्करं खलु मया २. सि । 'मए अदिदुरुव्वहो दे' इति क-ख. पाठः. ३. सू. १. 'ज्जवि' इति क. पाठ:. एदि त' इति क. पाठ:. ४. 'च) ना' इति ख. पाठः, ---