पृष्ठम्:तपतीसंवरणम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ तपतीसंवरणे विदूषकः - (क) जइ एव्वं, कामरसो भोअणरसो वि एक्का जादी। भोअणरसो वि सुहळहो तह पीदिं ण उप्पादेदि, जह दुःखळद्धो । किं एदिणा । दप्पणं विअ दे दिहिं पमज्जि- दूण दक्ख मे ळळिअबह्मवच्चससोहग्गं रूवं । एवं खु कुदो वि सन्दाणरुक्खादों पडिग्गहगहीदं तवणीयेब- ह्मसुतं । अण्णदो ळद्धं हेमदण्डअट्ठं । एत्तिअं काळं वाणरदूसिअजण्णोपवीदेण मए माणसेण बह्मसुत्तेण णि- व्वत्तिदाणि णिच्चकम्माणि । अज्जप्पहुदि मुक्खेण एव्व अणुट्ठाणं करेमि । (राज्ञो मुखमालोक्य) भो अन्धआरे मए णतिदं । अन्तभवं पुण अण्णं चिन्तेदि। अण्णं मए पळ- । ६ विदं । किं विअ एदं । 1 (क) यद्येवं, कामरसो भोजनरसोऽप्येका जाति: । भोजनरसोऽपि सुखलब्ध- स्तथा प्रीति नोत्पादयति, यथा दुःखलब्धः । किमेतेन । दर्पणमिव ते दृष्टिं प्रमृज्य पश्य मे ललितब्रह्मवर्चससौभाग्यं रूपम् । एतत् खलु कुतोऽपि सन्तानवृक्षात् प्रतिग्रहगृहीतं तपनीयब्रह्मसूत्रम् । अन्यतो लब्धं हेमदण्ड- काष्टम् । एतावन्तं कालं वानरदूषित यज्ञोपवीतेन मया मानसेन ब्रह्मसूत्रेण निर्वर्तितानि नित्यकर्माणि । अद्यप्रभृति मुख्येनैवानुष्ठानं करोमि | भो अ- न्धकारे मया नर्तितम् । अत्रभवान् पुनरन्यच्चिन्तयति । अन्यन्मया प्रल- पितम् । किमिवैतत् । यत्र । लसितं प्रसरणम् । यत्र यत्र रागस्य स्फुरणं तत्र तत्र लज्जा रुणद्धि । तेन प्रत्यालिङ्गनादिप्वप्रवृत्तिः । एवम्भूतमपि हृद्यमिति मनसः प्रतीतिः । रतौ दुःखरूपं यच्छीलं स्वभावः तेन ललितम् । तत्रापि ललितत्वमेव स्फुरति । अलब्धे कृच्छ्र- लब्धे सुखलब्धेऽपि सुखप्रतीतेदुरवबोधत्वम् ॥ १ ॥ एवं प्रियानुसन्धानपरतन्त्रतया वयस्यस्य हास्यवचनानवधानेन भवानन्य- १. 'दो गहिदो पडिग्गहो त' इति क-ख. पाठः. २. 'यं' इति क ख. पाठ:. ण्णोपवीदेण' इति क. पाठ:. पाठः ६. 'पि एं' इति क. पाठः. ४. 'रेण म' इति क. पाठ:. ५. ण णचिदम्' इति क.