पृष्ठम्:तपतीसंवरणम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । (ततः प्रविशंति ललितवेषो राजा विदूषकश्च ) राजा- (स्मृत्वा सानन्दम्) अहो दुरवबोधरसान्तरो मदनव्यापारः । तथाह्यद्य- S अप्रत्यस्तकरांवलेपमनतिव्याक्षिप्तनीवीग्रहं प्रक्षीणप्रतिषेधजल्पितमपि प्राप्य प्रियाया रतम् । लज्जालौल्यनिरुद्धरागलसितं नात्यर्थमाकाङ्क्षति व्यावृत्तं रतिदुःखशीलललितं विस्मर्तुमस्मन्मनः ॥ १ ॥

अथ विवाहानन्तरं कृतार्थस्य तपनवने वर्तमानस्य सवयस्यस्य राज्ञः प्रवृत्तिः प्रतिपाद्यते । करतलोदकतीरगते मन्दारलतामण्डपे प्रियतमां प्रतिपाल्य तिष्ठन्ननुभूतं वयोवस्थासमुचितं तत्सङ्गममनुसन्दधानः परमानन्दपरवशः स- म्भोगविशेषं श्लाघते– अहो इत्यादि । मदनव्यापारः मदनेन मदनविकारेण व्या- पारो भोगरूपः । दुरवबोधरसान्तरः एवमस्य स्वरूपमिति दुर्विज्ञेयरसविशेषः । रस आस्वादः । लोकेऽन्येषां वस्तूनामास्वादव्यवस्था दृश्यते अकृच्छ्रेण सिद्धौ सुखरूपत्वम्, अन्यथा दुःखरूपत्वामिति । अयं न तथा, लिप्सायां प्रकृष्टायामपि लाभादलाभस्य सुखकरत्वम् आनुकूल्यवत् प्रातिकूल्येऽप्यास्वादः, आनुकूल्यापेक्षि- णस्तदानीमेव प्रातिकूल्ये प्रीतिरिति दुर्विज्ञेय इत्येव वक्तुं शक्यम् । तथाह्यद्याम्मद- वस्थायां दृश्यते । प्रियाया रतम् एवं प्राप्याप्यम्मन्मनो व्यावृत्तम् अननुकूलं रतं विस्मर्तुमत्यर्थं नाकाङ्क्षति । इदानीन्तनमाह - अप्रत्यस्तति । अनिरस्तो देहस- ङ्कोचहस्तादिना करस्य प्रेमचापलक्कृतोऽवलेपोऽतिप्रवृत्तिः अर्थात् स्तनकेशादिषु यस्मिन् रते । क्रियाविशेषणं वा । तथापि नीवीविस्रंसने प्रतिषेधो भवेदिति शङ्कायां पुनः कथनम् – अनतिव्याक्षिप्तनीवीग्रहम् । अनतिशब्देन अङ्गान्तरस्पर्शाद् विशेषः । निर्बन्धेन क्रमेण वैपरीत्यगलनमिति प्रकाश्यते । तथा प्रक्षीणं प्रतिषेध- जल्पितं यत्र मा मा मुञ्चेत्यादि, प्रक्षीणशब्देन क्रमगलनमुक्तम् | सम्प्रयोगान्तरो- पलक्षणमेतत् । एवमनुकूलं प्राप्यापि पूर्वं व्यावृत्तम् उक्त प्रतियोगि अननुकूलम् अत्यर्थं विस्मर्तुमस्मन्मनो नाकाङ्क्षति, अन्तरान्तरा तत्रापि प्रसरति । व्यावृ- त्दस्य दिङ्मात्रं प्रकाशयति - लज्जया यत् लौल्यं चापलं तेन निरुद्धं रागलसितं १. 'शति गृहीतत्ररनेपथ्यो रा' इति ख. पाठः, -