पृष्ठम्:तपतीसंवरणम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ चतुर्थोऽङ्कः । (ततः प्रविशति' मणिचषकहस्ता चेटी) चेटी - (क) आणन्त्तह्मि भट्टिदारिआए 'हळा ! सोअन्धिए ! महु- अराणुच्छिद्रं कुसुमासअं आणेहि' त्ति । ता विइणिस्सं दाव अहं । (परिक्रम्य तरुषु दृष्टिं व्यापारयन्ती) एदं खु एदाए कप्पळदाए हेमणळिणमुउळं अप्पच्छिद्दग्गं दीसइ । एत्थ दुक्खरो महुअराणं पवेसो । ता एदं गेह्निस्सं । (नाट्येन गृहीत्वा) अम्मो एदस्स महुपेसळदा । एत्तिएण च्चिअ एसो मणिच- सओ पुण्णकप्पो आसी। (अन्यतो विलोक्य) एद् हि एदस्सिं मन्दारे कणअकाण्णआरकुसुमं विअसिअं पि चूदपळ्ळवेहि पिहिदमुहं चिट्ठइ । एदं पितेहि अणुवज्जुत्तं । (आवर्जयति) (क) आज्ञप्तास्मि भर्तृदारिकया 'सखि ! सौगन्धिके! मधुकरानुच्छिष्टं कुसुमा- सवमानये'ति । तद्विचेष्यामि तावदहम् । एतत् खल्वेतस्याः कल्पलताया हेमनलिनमुकुलमल्पच्छिद्राग्रं दृश्यते । अत्र दुष्करो मधुकराणां प्रवेशः । तदेतद् ग्रहीष्यामि | अम्मो एतस्य मधुपेशलता । एतावतैवैष मणिचषकः पूर्णकल्प आसीत् । एतद्ध्येतस्मिन् मन्दारे कनककर्णिकारकुसुमं विकसि- तमपि चूतपल्लवैः पिहितमुखं तिष्ठति । एतदपि तैरनुपयुक्तम् । । 1 अथ चतुर्थेऽङ्के नायकयोः सम्भोगशृङ्गारे वर्णयिष्यमाणे अन्तरा सूच्यसू- चनार्थं नीचपात्राभ्यां चेटीभ्यां प्रवेशकप्रस्तावः । प्रमेयसङ्घटनार्थमपेक्षितस्य नीर- सस्य वृत्तान्तस्य सूचनं विष्कम्भप्रवेशादिभिः क्रियते । अत्र सूर्यप्रीणनार्थमुद्यतो नायकोऽङ्कान्ते निर्गतः । पुनः सूर्ये प्रति नियमालम्बनम् । तत्र वसिष्ठेन राज्ञो द्वादशवासरमात्रं नियमं निर्वर्त्य सूर्यलोकं प्राप्य भगवन्नियोगेन तपती तपनवन- मानीय राज्ञे दत्ता । तत्र यथाविधि परिणीतया सह नायकस्य सुखवासे नायिकायाः १. ‘ति चे’ इति क-ख-त्र. पाठ:. २. 'द्दं दी' इति ख. पाठः ३. 'स्सं (गृ' इति क.पाठः ४. 'अस' इति क. पाटः ५. 'एदस्सि' इति ख, पाठ: ६. 'पि' इति क. पाठः, 'खु' इति घ. पाठः