पृष्ठम्:तपतीसंवरणम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । राजा --- किमन्यत्. आचराम्यहमतः परं सखे ! तामुपोढनियमः पुरस्क्रियाम् । प्रीणितः प्रणतवत्सलो यया नांशुमानलमदातुमात्मजाम् ॥ १४ ॥ (इति निष्क्रान्तौ) इति तृतीयोऽङ्कः । १२९ -memora माह • किमन्यदिति । आरम्भाणां बहुत्वं न शङ्कनीयम् । अत एवं करोमि । सखे ! मम सम्पद्व्यसनयोस्त्वमेवाक्कृत्रिमं मित्रम्, अतः विपद्दशामतीत्य सम्पदं प्रत्येवं तीव्रमनुष्ठानं करोमि । अतः परम् उपोढनियमः अङ्गीकृताचरणवतः तां पुरस्क्रियामाचरामि । अंशुमन्तं प्रतीति शेषः । यया पुरस्क्रियया प्रीणितों- ऽशुमान् आत्मजामदातुं नालम् अस्मै न दास्यामीति कृतबुद्धिरपि सपर्याकृतेन सन्तोषेण विवशीकृतो न दास्यामीत्यध्यवसायं निर्वोढुं न शक्नुयात्, प्रीत्या दास्य- त्येव, तादृशीं सपर्यामाचरामि । हठान्न वशीकरणमित्याह-प्रणतवत्सल इति । प्रणतेषु वात्सल्यं भगवतः प्रसिद्धम् । अतो मयैवं साध्यनिश्चयेनोक्तम् ॥ १४ ॥ इत्यनन्तरकर्तव्यं निश्चित्य वयस्येन सह निष्क्रान्तः || प्रणतवत्सल इति तृतीयोऽङ्कः ।