पृष्ठम्:तपतीसंवरणम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ तपतीसंवरणे राजा - (सत्वरमुपसृत्य) न खलु न खलु साहसमनुष्ठेयम् । अयमहं प्राणिमि । विदूषकः - (श्रुत्वा ससम्भ्रमम् ) (क) कहिं सिकहिं सि । बप्फंधा मे दिट्ठी । तेण तुमं ण पेक्खामि (राजानं परिष्वज्य मुक्तकण्ठं रुदित्या) एसि एव्व जम्मे तुवं मए आळिदिव्वो आसी। राजा --- सखे ! अलमावेगेन। उत्तीर्णा वयममुतो व्यसनार्णवात् । विदूषकः- (ख) कहं विअ । • एवमिव । राजा. - विदूषर्क:--- (सहर्षम्) (ग) भो दिट्ठिआ वड्ढसि । अदो वरं किं अह्माणं आरम्भो । (क) क्वासि क्वासि । बाष्पान्धा मे दृष्टिः । तेन त्वां न पश्यामि । एतस्मिन्नेव जन्मनि त्वं मयालिङ्गितव्य आसीः । (ख) कथमिव । (ग) भो दिष्ट्या वर्धसे । अतः परं क आवयोरारम्भः । - किल सङ्कल्पः । किलेति वार्तया सिद्धमिदम् । तथापि घटनोपायं न जानामीत्य- त्राह - तत् सूर्यमभ्यर्घ्य गृहाणैतस्याः पाणिम् इत्युपायमप्युपदिश्यान्यत्र मनो व्याक्षिप्य तस्य चापलं शमयति - एष पुनरिति । ते वयस्यो भृगुपतनं कर्तुं प्र- वृत्तः । तत् त्वरितं गत्वा मरणात् प्रागेव प्रत्युज्जीवनं तस्य कर्तव्यम् । इदानीं क थनीयमुक्तम् । तद् वयं गच्छामः पुनर्दर्शनायेत्यनेन यात्रानिर्बन्ध आस्थानुब- न्धश्च सूचितः ॥ एवं परस्परानुरागे निश्चिते सखीसहितायां नायिकायां निर्गतायां राजा भृगु- पतनोन्मुखं तम् ‘अयमहं प्राणिमि' जीवामीत्युक्ता मरणान्निवर्त्य सिद्धमर्थं तं बो- घयित्वेतः परं कोऽस्माकमारम्भ इति तद्वचनमाकर्ण्य निश्चितत्वेन कर्तव्य- १. 'कः -क' इति ख. पाठ.. २. (ला) क' इति ग. पाठः ३. 'डी । तु' इति क-ख-ग. पाठः. ४. 'क्खदि (रा' इति क. पाठ: ५. 'जा परिष्वजते । विदूषकः मु' इति ख-घ. पाठ: ६. 'क:- दि' इति ख. पाठः ७. 'किं कादव्वं । रा' इति ख. पाठः. ८ 'णं कत्तव्वं रा' इति क. पाठ:.