पृष्ठम्:तपतीसंवरणम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । इअं णो पिअसही तेळळोक्कप्पदीवस्स भअवदो सुय्यस्स धीदा भअवदीए सावित्तीए अवरआ तवदीणामहेआ। तस्स वि किळ महाराओ एव्व जामादुओ त्ति सङ्कप्पो । ता अब्भत्थिअ देवं गेह्र एदाए पाणिं। एसो उण दे व अस्सो तुह अवत्थं दक्खिअ णिरासो भिउपडणं काढुं पत्थिओ । ता तुरिअं गत्तूण पच्चुज्जीवेहि णं गच्छह्म पुणो दंसणाय । राजा विदूषकः ( सह सखीभ्यां निष्कन्ता नायिका) (ससम्भ्रमं मण्डपनिष्क्रमणं रूपयित्वा परिक्रामन्) क्वासौ क्वासौ । (प्रविश्य ) जहसमीहिदं करिस्सं । (क) ह्याणसंसुद्धो अहं जहसमीहिदं करिस्सं। (शिखरारोहणं नाटयति ) भगवतः सूर्यस्य पुत्री भगवत्याः सावित्र्या अवरजा तपतीनामधेया। तस्यापि किल महाराज एव जामातेति सङ्कल्पः । तदभ्यर्थ्य देवं गृहाणैतस्याः पाणिम् । एष पुनस्ते वयस्यस्तवावस्थां दृष्ट्वा निराशो भृगुपतनं कर्तुं प्रस्थि- तः । तत् त्वरितं गत्वा प्रत्युज्जवियैनम् । गच्छामः पुनर्दर्शनाय । (क) स्नानसंशुद्धोऽहं यथासमाहितं करिष्यामि । - राजस्य तवेदानीमेव त्वरा न युक्ता । इयमावयोः सखी न स्वतन्त्रा, अस्मदनु- वादेनैव प्रवर्तते, अस्मदुक्तिमनुसरति चेति प्रकाशितम् । तर्हि युवयोरेव सेव्यत्व- मिति चेत् तत्राह – त्रैलोक्यप्रदीपस्य भगवतः सूर्यस्य धीदा पुत्री | त्रैलोक्यप्रदी- पस्य भगवत इत्यनेन पितृगौरवं प्रकाशितम् । ततोऽपि गौरवान्तरमाह- वत्याः सावित्र्या अवरजा तपतीनामधेयेति । तपतीत्यस्या मङ्गलं नाम । विस्रम्भे सर्वे बोद्धव्यमिति मयापृष्टयापि निर्दिष्टम् । तर्हि दुर्लभेयमिति तस्य विषादमा- लोक्योक्तिः – तस्यापि किल पितुरपि, न केवलमस्माकं, महाराज एव जामातेति भग- - - १. 'णो स' इति क- ख. पाठः. २. 'पउत्तो । त" इति ख. पाठ:. ३. 'क्रामति)’ इति ग-घ. पाठः, 'क्रम्य' इति क. पाठ:-