पृष्ठम्:तपतीसंवरणम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे कमळसंसग्गं पत्थिअ एसो महाराओ एरिसं दसं पडिव- ण्णो । ता एदस्स हिअए तुरिअं णिहेहि करकमळं । जइ एदं पि विहळं होई, पच्छा सव्वाओ विवज्जह्म | (नायिका सत्वरमुपसृत्य तिरस्करणीमपनीय ससाध्वसकम्पं तस्योरसि करकमलमर्पयति) - (सत्वरमुत्तिष्ठन् करमाक्षिपन्तीं नायिकां दृष्ट्वा अलमलमाक्षिप्यामुं पाणि पाणौ निधत्स्व गलदमृतम् । यो मामुज्जीवयितुं हरिणाक्षि ! समर्पितो हृदये ॥ १३ ॥ (ग्रहीतुमिच्छति ) राजा www १२६ (नायिका सलज्जं सख्यौ तिर्यक् पश्यन्ती तिष्ठति) मेनका – (राजानमुपसृत्य) (क) महाराअ ! अळं दाणिं तुवरिअ । - ईदृशीं दशां प्रतिपन्नः । तदेतस्य हृदये त्वरितं निधेहि करकमलम् । यद्ये- तदपि विफलं भवति, पश्चात् सर्वा विपद्यामहे | (क) महाराज! अलमिदानीं त्वरित्वा । इयमावयोः प्रियसखी त्रैलोक्यप्रदीपस्य www अथ यथाप्रार्थितं नायिकाकरकमले हृदि न्यस्ते मूर्च्छा परित्यज्य सत्वर- मुत्तिष्ठन् नायको हृदयन्यस्तं करकमलमाक्षिपन्तीं नायिकां दृष्ट्वा सहर्षमाह - अलमलमित्यादि । अमुं पाणिमाक्षिप्यालमलं हृदये न्यस्तं मा माक्षिप । किं पुनः कर्तव्यमिति चेत्, पाणौ निधत्स्व पूर्व हृदये न्यस्तम्, इदानीं पाणौ । यो मामुज्जीवयितुं हृदये समर्पितः, तं जीवनप्रदातारम् । अत एव गल- दमृतम् अमृतस्राविणम् । अन्यथा कथं जीवनं भवेत् । हरिणाक्षीति । त्वद्गुणगौ- रवमेव मां सम्भ्रमयति, तत् पाणौ निधत्स्व । इदानीमेव पाणिग्रहणमभिमतम् ॥ इति ससम्भ्रमं नायके वदति मेनका कामुकानां प्रेमचापलस्वभावं जानती एतत्प्रार्थनस्य नायमवसर इति मत्वा द्वयोरन्तरं प्रविश्य करग्रहणोन्मुखस्य राज्ञः प्रेमचापलं शमयति – महाराजेति । अलमिदानीं त्वरित्वा प्रणयोऽवलम्ब्यतां महा- - १. 'हि स' इति क-ख. पाठ: २. 'नयन्ती स' इति ख. पाठः ३. 'स्योपरि क' इति क. पाठ:. ४. 'ष्ट्वा ग्रही' इति क. पाठः, ५. 'ससम्भ्रमं ति' इति ग. पाठः ६. 'स्थिता) ' इति ख-ग.पाठः,